________________
॥ श्री भक्तामरस्तोत्रम् ।।
गतप्राया रात्रिः कृशतनुशशी शीर्यत इव
प्रदीपोऽयं निद्रावशमुपगतो धूर्णित इव । प्रणामान्तो मानस्त्यजसि न यथा त्वं क्रुधमहो !
कुचप्रत्यासत्या हृदयमपि ते सुभु ! कठिनम् ।।१।। - शिखरिणी इति श्रुत्वा मयूरो बाणमभाणीत्-सुभ्रपदं मा वादीः, सकोपनत्वाच्चण्डि ! कठिनमित्थं पठेत्याकर्ण्य सा सती मुखस्थताम्बूलरसक्षेपात् कुष्ठी भवेति पुत्रीचरित्रप्रकाशकं तं शशाप । तत्क्षणं कुष्ठमण्डलान्यभवंस्तत्तनौ । बाणः प्रातः पूर्वमेव नृपपर्षदं यातो वरकवस्त्रं परिधाय समेतं मयूरं प्रति 'आविउ वरकोढी' इति श्लिष्टं वच उवाच । राज्ञा तद् ज्ञात्वा दृष्ट्वा च कुष्ठं निर्गमय्यागन्तव्यमित्यवादि मयूरः। स सूर्यप्रासादे स्थिरीभूयैकमना उपविश्य - जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं
रक्ताः सिक्तैरिवौघैरुदयगिरितटीधातुधाराद्रवस्य । आयान्ता तुल्यकालं कमलवनरुचेर्वारुणा वो विभूत्यै
___ भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥१॥ - स्रग्धरा इत्यादिवृत्तशतेन सूर्यं तुष्टाव। शीर्णघाणाङ्घ्रिपाणीन् वणिभिरपघनैर्घर्घराव्यक्तघोषान्
दीर्घाघातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । धर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिनिर्विघ्नवृत्ते -
दत्तार्थाः सिद्धसद्धैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥१॥- स्रग्धरा __ इत्येतस्मिन् षष्ठे वृत्ते पठिते प्रत्यक्षीभूतो जगत्कर्मसाक्षी । मयूरो नत्वा (त) उवाच-देव ! कुष्ठं निर्गमय। सूरः प्राह-हे भद्र ! अहमपि वडवारूपरत्नादेव्या अनिच्छाभिगमाच्छापकुष्ठमनुभवाम्यद्यापि पदयोः, तव तु सतीशापकुष्ठमेककिरणदानादाच्छादयिष्यामीत्युक्त्वाऽगान्नभो नभोमणि । स चैककरस्तदङ्गमावृत्य कुष्ठमनीनशत्, जनो रञ्जितः, राजा तमपूजयत् । मयूरमहिममत्सरी बाणः पाणिचरणौ वर्धयित्वा कृतप्रतिज्ञः
ना १०८