________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
दामोदरकराघात - विह्वलीकृतचेतसा।
दृष्टं चाणूरमल्लेन, शतचन्द्रं नभस्तलम् ॥१॥ इति पूरिता समस्या । बाणोऽपि तथैव पृष्टः, हुंकारं कृत्वा तेनापि कथिता -
यस्यामुत्तुङ्गसौधान - विलोलवदनाम्बुजैः ।
विरराज विभावाँ, शतचन्द्रं नभस्तलम् ॥॥ देव्योक्तम् - द्वावपि कवी, शास्त्रज्ञौ च, परं बाणो हुंकारकरणेन न्यूनः, इयमोंकारवृत्तिपुस्तकावली मया दर्शिता, गीर्देवीकोशस्य कः पारं प्राप्तः? उक्तं च - "मा वहउ कोइ गव्वं, इत्य युगे पण्डिओ अहं चेव।
आ सव्वन्नाओ पुण, तरतमजोगेण मइविहवा ॥१॥" - आर्या इति, तयोः सख्यं कारितं सरस्वत्या, बहिर्वृत्त्या मिलितौ तौ चलितो, स्वगृहं प्रति क्रमेण प्राप्तौ, राजानमसेविषातां प्राग्वत् । उक्तं च -
"मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरङ्गैः। मूर्खाश्च मूखैः सुधियः सुधीभिः
समानशीलव्यसनेषु सख्यम् ॥१॥" - उपजातिः एकदा बाणस्य स्वस्त्रिया सह प्रणयकलहः सञ्जज्ञे। सा कामिनी मानिनी मानं नामुञ्चत्। रजनी बहुरगमत् । मयूरः शरीरचिन्तार्थं व्रजन तं भूभागमागमत्, वातायने दम्पत्योर्ध्वनिं श्रुत्वा तस्थौ । पतिव्रते ! क्षमस्वापराधमेकम्, न पुनः कोपयिष्ये त्वामित्युक्त्वा बाणः पत्नीपादयोरपतत् । सा सनूपुरेण चरणेन तं जघान । 'तुलाकोटिक्वणश्रवणान्नम्ररमणापमाननाद् दूनो गृहगवाक्षाधोभागस्थो मयूरोऽभवत् । बाणस्तु नव्यं पद्यमपाठीत् १. तुलाकोटिः-नूपुरम् ।
ना १०७ ना