________________
श्री गुणाकरसूरिविरचिता ॥ भक्तामरस्तोत्रविवृत्तिः ॥ पूजाज्ञानवचोऽपाया - पगमातिशयाद्भुतम् ।
श्रीनाभेयं नमस्कुर्वे, सर्वकल्याणकारकम् ॥१॥ - अनुष्टप् महारजतसद्वर्णं, महानन्दविभूषणम् । । ___ महावीरं जिनं वन्दे, महामोहतमोऽपहम् ॥२॥ श्रुतदेवीप्रसादेन, भक्तामरवरस्तवे ।।
वार्ताः काश्चिच्चमत्कार--कारिणीः सार्थिका प्रथे ॥३॥ भक्तामर० यः संस्तुत० इत्यनयो र्व्याख्या -
तद्यथा - पुराऽमरावतीजयिन्यां श्रीउज्जयिन्यां पुरि वृद्धभोजराजपूज्योऽधीतशास्त्रपूरो मयूरो नाम पण्डितः प्रतिवसति स्म, तज्जामाता बाणः, सोऽपि विचक्षणः । द्वयोरन्योऽन्यं मत्सरः । उक्तं च - "न सहन्ति इक्कमिक्कं, न विणा चिट्ठन्ति इक्कमिक्केण ।
रासहवसहतुरङ्गा, जूआरा पण्डिया डिम्भा ॥१॥'' - आर्या अन्येधुर्विवदमानौ तौ भूपेनोक्तौ - भो पण्डितौ ! युवां काश्मीरान् गच्छतम्, तत्र भारती' यं पण्डितमधिकं मन्यते स एवोत्कृष्टः । तौ सपाथेयौ चेलतुः माधुमतान् । पथि व्रजन्तौ सभरणप्रष्ठौहां पञ्चशती दृष्ट्वा बालीवर्दिकान् पप्रच्छतुः - अत्र किम्?। त ऊचुः-ओमकारवृत्तिपुस्तकानि । पुनर्वृषभपञ्चशतीं दृष्ट्वा यावद् द्विसहस्रीं ददृशतुः, सर्वेष्वोंकारविवरणमपूर्वं मत्वा गतगर्त बभूवतुः। तौ क्वाप्येकत्र सुषुपतुः। जागरितो मयूरो वाण्या “शतचन्द्रं नभस्तलम्' इति समस्यापदं वदन्त्या, अर्थोत्थितेन तेन - १. सरस्वती । २. काश्मीरान् । ३. सरस्वत्या ।
ना १०६ |