________________
॥श्री भक्तामरस्तोत्रम् ॥
यस्यां सा रुचिरवर्णविचित्रपुष्पा तां 'बहुव्रीहिः'; अथवा रुचिरवर्णा एव विचित्राणि - पञ्चवर्णतया मनोज्ञानि पुष्पाणि यस्यां सा (ताम्), कुसुमानां पञ्चवर्णत्वं प्रसिद्धमेव, अतो विचित्रेतिपदं पुष्पस्यैव विशेषणम्। तं-पुरुषं लक्ष्मी - राज्यस्वर्गोपवर्गसत्का श्रीः अवशा-तद्गतचित्ता । पुरुष किंलक्षणम्? 'मानतुंगं' पूजोन्नतम्। मानेन तुङ्गो मानतुङ्गस्तं मानतुङ्गं 'तत्पुरुषः'। मानतुङ्गमिति विशेषणं कथयता स्तोत्रका कविना मानतुङ्ग इति स्वनाम बन्धननिगडाधुपद्रवनाशो राजप्रसादश्चासूचि। 'समुपैति' समन्तात् पार्श्वमायातीति मङ्गलम्।।४४॥
॥ इति भक्तामरस्तोत्रवृत्तिः समाप्ता ।।
श्रीमत्तपगणगगना - गणदिनमणिहीरविजयसूरीणाम्। शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन ॥१॥ नयनशररसेन्दु (१६५२) मिते, वर्षे वैराटनाम्नि वरनगरे । बालजनविबोधार्थं, विजयदशम्यां हि स(सा) समास (प्ता?)
॥२॥ - युगलम्
श्लोकानां षट्शती षोडशोत्तरा समजायत प्रत्यक्षरं गणनया वृत्तौ संख्या निवेदितात्र, अङ्कतोऽपि ६१६, सूत्रसहितवृत्तेस्रन्थाग्रं ६९६ समाप्तम्॥
सकलपण्डितशिरोमणिपण्डितश्रीश्रीकेसरसागरगणिशिष्यगणि अनन्तसागरलिपीकृतं संवत् १७६३ वर्षे मृगशिरवदि ४ (दि) दिने श्रीआयुपुरनगरे श्रीशान्तिजिनप्रसादात्।। श्रीरस्तु।। कल्याणमस्तु ।। शुभं भवतु ।। छ । छ ।
* * *
ना
१०५ |