________________
॥श्री मानतुङ्गसूरिविरचितम् ।।
७ बन्धनो ८ स्थम्'। द्विपानामिन्द्रो द्विपेन्द्रः “तत्पुरुषः', मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः ('कर्मधारयः'), मृगाणां राजा मृगराजः 'तत्पुरुषः', दवश्चासावनलश्च दावानलः 'कर्मधारयः', वारीणि धीयन्तेऽस्मिनिति वारिधिः, महच्च तदुदरं च महोदरं 'कर्मधारयः', मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामावारिधिमहोदरबन्धनानि 'द्वन्द्वः', मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनेभ्यः उत्थं मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं 'तत्पुरुषः'। गजेन्द्र १ सिंह २ दावाग्नि ३ सर्प ४ रण ५ समुद्र ६ जलोदर ७ बन्धनो ८ त्पन्नम्। इति त्रिचत्वारिंशत्तमवृत्तार्थः ।।४३।।
* * * अथ स्तवप्रभावसर्वस्वं कविराह - स्तोत्रेत्यादि
व्याख्या - हे 'जिनेन्द्र' ! केवलिपते !। जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः'। इह जगति यो जनो-लोकोऽजस्रम्-अनवरतं तवभवतः स्तोत्रस्रजं-स्तवनमालां, स्तोत्रमेव स्रक् स्तोत्रस्रक् तां ‘कर्मधारयः', बहुपदगर्भितत्वात् स्तोत्रस्य मालोपमानं, कण्ठगतां - निजकण्ठलुण्ठितां धत्ते-करोति पठतीत्यर्थः। स्तोत्रस्रजं किंभूताम्? 'निबद्धां' रचिताम्। कैः? 'गुणैः' पूर्वोक्तज्ञानदर्शनचारित्ररूपैः दवरकैः । केन ? ‘मया' श्रीमानतुङ्गसूरिणा। कया? 'भक्त्या' भावपूर्वम्। स्तोत्रस्रजं किंलक्षणाम्? 'रुचिरवर्णविचित्रपुष्पां' रुचिरा-मनोहरा वर्णा-अकाराद्या द्विपञ्चाशदेव विशेषणाद् भूतानि(?) स्पृहणीयानि विचित्राणि यमकश्लेषानुप्रासद्वयर्थादीनि तान्येव च पुष्पाणि यस्यां सा रुचिरवर्णविचित्रपुष्पा (ताम्)। रुचिराश्च ते वर्णाश्च रुचिरवर्णाः ‘कर्मधारयः', रुचिरवर्णाश्च विचित्राणि च रुचिरवर्णविचित्राणि 'द्वन्द्वः', रुचिरवर्णविचित्राण्येव पुष्पाणि
ना १०४ |