________________
॥ श्री भक्तामरस्तोत्रम् ॥
बन्धभयं 'तत्पुरुषः', विगतं बन्धभयं येभ्यस्ते विगतबन्धभयाः 'बहुव्रीहिः'। कथम् ? 'स्वयम्' आत्मनैव । कथम् ? 'सद्यः' शीघ्रम् । मनुजाः किं कुर्वन्तः ? 'स्मरन्तः ' ध्यायन्तः । कं कर्मतापन्नम्? ‘त्वन्नाममन्त्रं’“ॐ 'श्री ऋषभाय नमः' इति पदम् । तव नाम त्वन्नाम 'तत्पुरुषः ', त्वन्नामैव मन्त्रस्त्वन्नाममन्त्रस्तं 'कर्मधारयः । कथम् ? 'अनिशं' सदा । मनुजाः कथंभूता अपि ? 'उरुशृङ्खलवेष्टिताङ्गाः ' गुरुलोहदामव्याप्तवपुषः। उरवश्च ते शृङ्खलाश्च उरुशृङ्खलाः 'कर्मधारयः', उरुशृङ्खलैर्वेष्टितानि उरुशृङ्खलवेष्टितानि 'तत्पुरुषः', उरुशृङ्खलवेष्टितानि अङ्गानि येषां ते उरुशृङ्खलवेष्टिताङ्गाः 'बहुव्रीहिः । कथम् ? 'आपादकण्ठं' पादगलं यावत्। पादौ च कण्ठश्च पादकण्ठं समाहारद्वन्द्वः' । 'प्राणितूर्यसेनाङ्गानां द्वन्द्वैकवद्भावः' इति । पादकण्ठं मर्यादीकृत्य आपादकण्ठम् 'अव्ययीभावः'। मनुजाः पुनः किंभूताः ? 'बृहन्निगडकोटीनिघृष्टजङ्घाः' विकटान्दुकाग्रपीडितजङ्घाः । बृहच्चासौ निगडश्च बृहन्निगड : 'कर्मधारयः', बृहन्निगडस्य कोटिर्बृहन्निगडकोटिः 'तत्पुरुषः', बृहन्निगडकोट्या निघृष्टे बृहन्निगडकोटिनिघृष्टे 'तत्पुरुषः ', बृहन्निगडकोटिनिघृष्टे जङ्घे येषां ते बृहन्निगडकोटिनिघृष्टजङ्घाः 'बहुव्रीहिः '। कथम् ? 'गाढं' निबिडम्। इति द्विचत्वारिंशत्तमवृत्तार्थः ॥४२॥
***
अथाष्टभयनाशेन स्तवं सङ्क्षिपन्नाह - मत्तेत्यादि
व्याख्या - हे अमेयमहिमन् ! तस्य प्राणिनो भयं -भीतिराशु तत्कालं नाशं-क्षयम् उपयाति-गच्छति इवोत्प्रेक्षते भिया-भयेन, यो मतिमान् - प्राज्ञः, मतिरस्यास्तीति मतिमान् तावकं भवदीयं तवायं तावकस्तं इमं - प्रयुक्तस्वरूपं स्तवं स्तोत्रमधीते - पठति । भयं किंविशिष्टम् ? 'मत्तद्विपेन्द्र १ मृगराज २ दवानला ३ हि ४ सङ्ग्राम ५ वारिधि ६ महोदर
१०३
-