________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
भग्ना-मोटिताः । जलेन युक्तमुदरं जलोदरं 'तत्पुरुषः', भीषणं च तज्जलोदरं च भीषणजलोदरं 'कर्मधारयः', उद्भूतं च तद् भीषणजलोदरं चोद्भूतभीषणजलोदरं 'कर्मधारयः', उद्भूतभीषणजलोदरस्य भार उद्भूतभीषणजलोदरभारः “तत्पुरुषः' उद्भूतभीषणजलोदरभारेण भुग्नाः उद्भूतभीषणजलोदरभारभुग्नाः “तत्पुरुषः', शोच्यादीनां दशाम्-अवस्थाम् उपगताः -प्राप्ताः। 'च्युतजीविताशाः' गलितजीवितवाञ्छाः। जीवितस्याशा जीविताशाः 'तत्पुरुषः', च्युता जीविताशा येभ्यस्ते 'बहुव्रीहिः'। एवंभूताः सन्तो माः त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः - भवच्चरणकमलरेणुसुधालिप्तवपुषः। तव पादौ त्वत्पादौ 'तत्पुरुषः', पङ्के जायते इति पङ्कजे 'तत्पुरुषः', त्वत्पादावेव पङ्कजे त्वत्पादपङ्कजे 'कर्मधारयः', त्वत्पादपङ्कजयो रजः त्वत्पादपङ्कजरजः 'तत्पुरुषः', त्वत्पादपङ्कजरज एव अमृतं त्वत्पादपङ्कजरजोऽमृतं ‘कर्मधारयः', त्वत्पादपङ्कजरजोऽमृतेन दिग्धं त्वत्पादपङ्कजरजोऽमृतदिग्धं 'तत्पुरुषः', त्वत्पादपङ्कजरजोऽमृतदिग्धं देहं येषां ते त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः 'बहुव्रीहिः'। मकरध्वजतुल्यरूपाः - काममूर्तयः। कमनीयकान्तय इत्यर्थः। मकरो ध्वजे यस्य स मकरध्वजः 'बहुव्रीहिः', मकरध्वजस्य तुल्यं मकरध्वजतुल्यं 'तत्पुरुषः', मकरध्वजतुल्यं रूपं येषां ते मकरध्वजतुल्यरूपाः 'बहुव्रीहिः'। 'भवन्ति' स्युः। यथा सुधापानात् सर्वरोगनाशः, तथा भगवत्पादपद्माश्रयणादपि सकलव्याधेरुपशमः। इत्येकचत्वारिंशत्तमवृत्तार्थः ।।४१॥
* * * अथ बन्धनभयं भिन्दन्नाह - आपादेत्यादि
व्याख्या - हे चक्रेश्वरीचर्चितचरण ! मनुजाः-मनुष्या भवन्ति। मनुजाः किंलक्षणाः? 'विगतबन्धभयाः' विध्वस्तबन्धनकभीतयः। बन्धस्य भयं
का १०२ ला