________________
॥ श्री भक्तामरस्तोत्रम् ।।
स्मिन्नित्यम्भोनिधिस्तस्मिन् 'तत्पुरुषः', सांयात्रिका जना भवतः स्मरणात् त्रासम्-आकस्मिकं भयं विहाय - त्यक्त्वा व्रजन्ति-क्रमेण स्वस्थानं यान्ति। जनाः किंलक्षणाः? 'रङ्गत्तरङ्गशिखरस्थितयानपात्राः' उच्छलत्कल्लोलाग्रवर्तिवाहनाः। रङ्गन्तश्च ते तरङ्गाश्च रङ्गत्तरङ्गाः ‘कर्मधारयः', रङ्गत्तरगाणां शिखराणि रङ्गत्तरङ्गशिखराणि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरेषु स्थितानि रङ्गत्तरङ्गशिखरस्थितानि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरस्थितानि यानपात्राणि येषां ते रङ्गत्तरङ्गशिखरस्थितयानपात्राः 'बहुव्रीहिः'। अम्भोनिधौ कथंभूते? 'क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ' क्षुभिताः - क्षोभं गताः भीषणानि-रौद्राणि नक्रचक्राणि- दुष्टजलजन्तुवृन्दानि पाठीनपीठौ-मत्स्यभेदौ च भयदो-भयोत्पादक उल्बणः-प्रकटो वाडवाग्निः-वडवानलश्च यत्र स तस्मिन्। नक्राणां चक्राणि नक्रचक्राणि 'तत्पुरुषः', भीषणानि च तानि नक्रचक्राणि च भीषणनक्रचक्राणि ‘कर्मधारयः', पाठीनाश्च पीठाश्च पाठीनपीठाः 'द्वन्द्वः', वाडवश्चासावग्निश्च वाडवाग्निः ‘कर्मधारयः', उल्बणश्चासौ वाडवाग्निश्च उल्बणवाडवाग्निः 'कर्मधारयः', भयं ददातीति भयदः 'तत्पुरुषः', भयदश्चासावुल्बणवाडवाग्निश्च भयदोल्बणवाडवाग्निः ‘कर्मधारयः', भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः 'द्वन्द्वः', क्षुभिता भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयो यत्र स क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्निस्तस्मिन् ‘कर्मधारयः'। इति चत्वारिंशत्तमवृत्तार्थः ।।४०॥
अथ रोगभयं भिन्दन्नाह-उद्भूतेत्यादि ___ व्याख्या - हे कर्मव्याधिविध्वंसनधन्वन्तरे ! मा-नरा उद्भूतभीषणजलोदरभारभुग्नाः-उत्पन्नरौद्रोदरवृद्धिभारवक्राः, भग्ना इति पाठे तु
का १०१ न