SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥श्री मानतुङ्गसूरिविरचितम् ॥ स्त्वत्पादपङ्कजवनायिणः 'तत्पुरुषः'। पुनर्जनाः किंभूताः? “विजितदुजयजेयपक्षाः' पराभूतोत्कटशत्रुगणाः। जेतुं योग्या जेयाः, जेयानां पक्षो जेयपक्षः 'तत्पुरुषः', दुःखेन जयो यस्य स दुर्जयः ‘बहुव्रीहिः', दुर्जयश्चासौ जेयपक्षश्च दुर्जयजेयपक्षः ‘कर्मधारयः', विजितो दुर्जयजेयपक्षो यैस्ते विजितदुर्जयजेयपक्षाः ‘बहुव्रीहिः'। युद्धे किंभूते? 'कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे' कुन्ताभिन्नानां पाटितानां गजानां-हस्तिनां शोणितं-रुधिरं तदेव वारिवाहो-जलप्रवाहस्तस्मिन् वेगावतारात्-त्वरितप्रवेशात् तरणे-प्लवने आतुरैः-व्याकुलैर्योधैर्भीम-भयानकं तस्मिन्। कुन्तानां अग्राणि कुन्ताग्राणि 'तत्पुरुषः', कुन्तायैर्भिन्नाः कुन्ताग्रभिन्नाः 'तत्पुरुषः', कुन्ताग्रभिन्नाश्च ते गजाश्च कुन्ताग्रभिन्नगजाः 'कर्मधारयः', कुन्ताग्रभिन्नगजानां शोणितं कुन्ताग्रभिन्नगजशोणितं तत्पुरुषः', वारिणो वाहो वारिवाहः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितमेव वारिवाहः कुन्ताग्रभिन्नगजशोणितवारिवाहः ‘कर्मधारयः', वेगेनावतारो वेगावतारः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहस्य वेगावतारः कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारः ('तत्पुरुषः'), तरणे आतुराः तरणातुराः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारात् तरणातुराः कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुराः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुराश्च ते योधाश्च कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधाः ‘कर्मधारयः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधैर्भीमं कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमं तस्मिन् 'तत्पुरुषः'। इत्येकोनचत्वारिंशत्तमवृत्तार्थः ॥३९॥ * * * अथ जलापदं प्रशमयन्नाह - अम्भोनिधावित्यादि व्याख्या - हे भवोदधिपोत ! अम्भोनिधौ- समुद्रे अम्भो निधीयतेऽ मा १००
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy