________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
मृगः स्नेहपरवशस्तद्रक्षणाय प्रवर्तते, तथाऽहमपि त्वद्भक्तिवशात् प्रवृत्तोऽस्मीति भावः ।।
अथ समासा : - तेन प्रकारेण तथा इत्यव्ययम्। भक्तेर्वशः भक्तिवशः, तस्मात् भक्तिवशात्। मुनीनामीशः मुनीशः, तत्संबोधने हे मुनीश!। स्तवनं स्तवः, तं स्तवम्। विशेषेण गता विगता, 'नाम्नश्च.' (सा. सू. ५३९) इति समासः, विगता शक्तिर्यस्य स विगतशक्तिः। प्रवर्तते स्म इति प्रवृत्तः। आत्मनो वीर्यं आत्मवीर्यं, तद् आत्मवीर्यम्। न विचार्य अविचार्य। मृगाणामिन्द्र इव इन्द्रः मृगेन्द्रस्तम्। अभ्येतीत्यत्र 'इण् गतौ' धातुः अभिपूर्वः अदादिः। निजश्चासौ शिशुश्च निजशिशुः कर्मधारयः, तस्य निजशिशोः, निजस्य शिशुरिति तत्पुरुषः कौशल्याम्। 'निजः पुनः (अभि. का. ३, श्लो. २२५) 'आत्मीयः स्वः स्वकीयञ्च' (अभि. का. ३. श्लो. २२६) इति हेमसूरयः। परिपालनस्य अर्थःप्रयोजनं यस्य क्रियायां तत् परिपालनार्थम्। क्रियाविशेषणत्वात् नपुंसकत्वं अत एव ईशार्थमिति किरातार्जुनीयायां काव्यवृत्तौ घण्टापथमध्ये ईशार्थ यथा तथेति क्रियाविशेषणं, अर्थेन, नित्यसमासः सर्वलिङ्गता च वाच्या इति, परिपालनायेति परिपालनार्थं, 'तदर्थार्थेन' (सिद्ध. अ. ३, पा. १, सू. ७२) इति हैमवचनात्, अर्थशब्देन समासस्तत्पुरुषः।। इति पञ्चमकाव्यार्थः।। ५।।।
અર્થ: હે મુનીશ ! તે હું (સ્તુતિ કરવા માટે અશક્ત ) તો પણ ભક્તિના વશથી શક્તિ રહિત એવો પણ સ્તુતિ કરવા માટે પ્રવૃત્ત થયો છું, કેમકે પોતાના બચ્ચાના પરિપાલન માટે સ્નેહવડે આત્મબળને વિચાર્યા વિના હરણ સિંહની સામે નથી થતું શું?
अथ भगवद्भक्तिप्रवृत्तत्वादेव मत्कृतावपि पण्डितप्रवृत्तिहेतुरिदं भविष्यति इत्याह -
अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम्। यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः॥६॥
का १० ।