Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 145
________________ ॥श्री भक्तामरस्तोत्रम् ॥ . अथ समासा :- न विद्यते व्ययो यस्य सः अव्ययस्तम्। चिन्तयितुं योग्यश्चिन्त्यः, न चिन्त्योऽचिन्त्यस्तम्। न विद्यते सङ्ख्यं सङ्ख्या वा यस्य सः असङ्ख्यस्तम्। 'युद्धं तु सङ्ख्यं कलि:' (अभि. का. ३, श्लो. ४६०) इति हेमपादाः। आदौ भव आद्यस्तम्। बृंहति-अनन्तानन्देन वर्धते इति ब्रह्मा तम्। न विद्यते अन्तो यस्य स अनन्तस्तम्। अनङ्गस्य केतुरिव केतुरनङ्गकेतुस्तम्। केतुधूमकेतुरित्युच्यते, पदैकदेशे पदसमुदायोपचारात्, धूमकेतुग्रहस्तु विनाशाय स्यादिति। योगिनामीश्वरो योगीश्वरस्तम्। विदितो योगो येन स तम्। न एकः अनेकस्तम्। ज्ञानमेव स्वरूपं यस्य स तम्। न विद्यते मलः-कर्मलेपो यस्य सः अमलस्तम्। गभीरार्थं च इदं काव्यं विशेषज्ञेभ्यो ज्ञेयम्।। इति काव्यार्थः।।२४।। अर्थ :- सत्पुरुषो मापने अव्यय, विभु, मयिन्त्य, मसंज्य,प्रथम, ब्रह्मा३५ ઈશ્વરરૂપ, અનંત, કામદેવનો નાશ કરવામાં કેતુ સમાન, યોગીશ્વર, યોગજ્ઞ, अने, मद्वितीय, निस्व३५ (अने) पा५३५ भव२हित ४ छ. अथ बाहुल्येन प्रसिद्धदेवस्वरूपेण वर्णयन्नाह बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ दण्डान्वयः- विबुधार्चितबुद्धिबोधात् त्वम् एव बुद्धः भुवनत्रयशंकरत्वात् त्वम् शंकरः असि धीर ! शिवमार्गविधेः विधानात् धाता असि भगवन् ! त्वम् एव व्यक्तम् पुरुषोत्तमः असि । हे धीर ! त्वमेव बुद्धोऽसि इत्यन्वयः। 'असि' इति क्रिया. । कः कर्ता ? 'त्वम्' । किंविशिष्ट :? 'बुद्धः' बुद्धनामा बौद्धानां देवः, कृष्णस्य बुद्धावतारो वा । एवकारो अत्र निर्णये । कस्मात् ? 'विबुधार्चितबुद्धिबोधात्' विबुधैः का ४१ व

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203