Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 51
________________ ॥ श्री भक्तामरस्तोत्रम् ॥ तीर्थकरतणइ तेजि पञ्चपरमेष्ठितणइ तेजि। ॐ अहँ उत्पत्तये स्वाहा। शुचिश्चतुर्दिक्षु कायोत्सर्गेऽष्टोत्तरशतजापे कृते स्वप्ने शुभाशुभं लभते । धनधान्यऋद्धिमहामहिमप्रभृतयः स्मरणाद् भवन्ति । ॐ ह्रीँ पूर्वं जिणाणं ओहिजिणाणं परमोहिजिणाणं अणंतोहिजिणाणं सामन्नकेवलीणं भवत्थकेवलीणं अभवत्थकेवलीणं नमः स्वाहा । बन्धमोक्षिणी विद्या । प्रभावे कथा - अचेष्टं नृपति गाढं, योगिनीदोषतो मुनिः मन्त्र्यानीतो मल्लनामा, सज्जनं नीरुजं व्यधात् ।।१।। - अनु० श्रीअयोध्यायां पुरि यथार्थनामा सज्जनो राजा। अन्यदा राज्ञो दुष्टयोगिनीदोषो लग्नः। सर्वाङ्गव्यथयाऽचेष्टनोऽजनि नृपः । मन्त्रिसामन्तादिभिर्बहवो रुप्रतिक्रिया ः कारिताः, (परन्तु) प्रतीकारः कोऽपि न जातः । ततो मन्त्रिणस्तत्रस्थं श्रीगुणसेनसूरिं व्यजिज्ञपन्-राजानं सज्जीकुरुध्वमिति। गुरुभिरुक्तम्-द्रक्ष्यामः किमपि। निशि भक्तामरस्तवमन्त्रं ध्यायतां तेषां पञ्चदशवृत्तगुणनक्षणे कयाचिद् देव्या मल्लर्षिपदोदकाभिषेकः सज्जनस्य सज्जताहेतुरुक्तः। प्रातर्मन्त्रिपुरो गुरव ऊचुः-गूर्जरदेशान्निशि नित्यकायोत्सर्गस्थास्तुं दुर्गोपसर्गजिष्णुं महामहिमानं मल्लनामानं मुनीन्द्रमानाययध्वं यथा राजदोषो याति । इति श्रुत्वा चेलुः प्रधानानि (?)। तत्र गत्वांऽही नत्वाऽत्यर्थमभ्यर्थ्य चक्रादिदेवतावातसेवितः समानीतो मल्लर्षिः । चरणोदकेन राजा गतदोषोऽभूत् । समन्तान्मुनिमाहात्म्यमुदलसत् । उक्तं च - "न व्योमयानं न हिरण्यसिद्धि- र्न पादनीरेण गदोपशान्तिः । न काऽपि लब्धिर्न च काऽपि सिद्धिः कोऽयं विशेषो वतिनां तपस्सु? ॥१॥" - उपजातिः मल्लमुनिर्धर्ममुपादिशत् यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥१॥" - उपेन्द्रवजा ना १३४ |

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203