Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 399
________________ 10 15 3८६ * भसधारी डेभयन्द्रसूरिकृत ५९ls (भाग-4) त्वादविरुद्धाः, अत उक्तं-"अविरुद्धसन्निवाइयभेया उ पन्नरसत्तीति" गाथाद्वयभावार्थः । 'इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्ये'त्यादि (१८-५), एतदुक्तं भवति–नैगमवर्जा हि किल शेषाः षड् नयाः केचित् केवलसामान्यवादिनः केचित्तु केवलविशेषवादिनः, तत्र यदि सामान्यवादिनयमतमाश्रीयते तदा पर्यायसामान्यस्यैकत्वाच्चतुर्विधत्वं पर्यायलोकस्यानुपपन्नं स्यात्, विशेषवादिनयास्तु प्रत्येकं भिन्नत्वात्पर्यायाणामनन्तमेव पर्यायलोकमिच्छन्ति न चतुर्विधं, नैगमः पुनरनेकरूपत्वाच्चतुर्विधमपीच्छति पर्यायलोकमतस्तन्मतमिहाश्रीयते, यदिवा “मूढनइयं सुयं कालियं त्वित्यादिवचनात्किल प्रायः साम्प्रतं सूत्राणि नयैर्न विचार्यन्ते एवेति मूढनयदर्शनाश्रयणाद्विवक्षावशेनैव कियतोऽपि भेदानाश्रित्य पर्यायलोकस्य चातुर्विध्यमुच्यत इति । 'शीताकरो-भोग' इति (२८-७), शीता-लाङ्गलपद्धतिः तामाश्रित्य करो-भोगो धान्ययाचनमित्यर्थः । 'आसेवनायामयमेव प्रथमस्थाने कार्य' इति (२९-७) एतदुक्तं भवतियद्यप्यशुभकर्मवशतया पश्चात्कश्चिदप्रशस्तमपि भावमासेवते तथापि मुमुक्षुणा प्रथमं तावत्प्रशस्त एवासेवनीय इति ज्ञापनार्थं "दुविहो उ होइ भावो पसत्थ तह अप्पसत्थो य" इत्यत्र प्रथम प्रशस्तभावोपादानमिति । 'सामर्थ्य वर्णनायां चे'त्यादि (३२-४), व्याख्या सामर्थ्य तावद्वर्त्ततेऽसौ कल्पशब्दः तदर्थधातुनिष्पन्नत्वाद्, वर्णनायां यथा-कल्पितो-वर्णितः श्लाघितो देवदत्तः, छेदने यथा-कल्पितं-छेदितं द्विधाकृतं वस्त्रमिति, करणे यथा-ब्राह्मणार्थं कल्पिताः पूपाः, कृता इत्यर्थः, औपम्ये यथा-समुद्रकल्पमिदं तडागं, अधिवासे यथा-कल्पिता-अधिवासिता स्नानाय सज्जिता प्रतिमेत्यर्थः, एतेष्वर्थेषु कल्पशब्दं विदुर्बुधा इति श्लोकार्थः । 'ताव एगड़याओ भवह' त्ति (४०-११), यावन्मम पुत्रो भवति तावदेकीभूय स्थीयतामिति भावः । 'आमंतणि' गाहा 'अणभिग्गहिआ' गाहा (५६-१०), व्याख्या-इह यत्किल वस्तुनः साधकत्वेन बाधकत्वेन वा प्रमाणान्तरैरबाधितं वचनमुच्यते तत्सत्यं, तदेव प्रमाणैर्बाध्यमानं सन्मृषा, तदेव बाध्यमानाबाध्यमानं मिश्र, यत्तु वस्तुसाधकबाधकत्वाविवक्षया व्यवहारपतितस्वरूपमात्राभिधित्सया प्रोच्यते तदसत्यामृषं, तत्र आमन्त्रणी यथा-हे देवदत्त इत्यादि, इयं हि वस्तुसाधकबाधकत्वाभ्यामप्रवृत्तेः, स्वरूपमात्राभिधानपरत्वादसत्यामृषेति, आज्ञापनी · यथा-त्वमिदं कुरु, इयमपि स्वरूपमात्राभिधानपरत्वादसत्यामृषैव, यद्येवं सत्याऽप्यसत्यामृषातो न भिद्यते तस्या अपि जीवाजीवादिस्वरूपाभिधानमात्रकत्वादिति चेत् कः किमाह ?, यतो यदा परेण सह विप्रतिपत्तौ सत्यां वस्तुतत्त्वव्यवस्थापनेच्छया प्रमाणाबाधितं जीवादिस्वरूपाभिधायकं वचनमुच्यते तदा सत्यव्यपदेशं लभते, तदेव यदाऽविप्रतिपत्तौ तीर्थकरादिर्देशनाद्यवस्थायां जीवादिस्वरूपाविर्भावनमात्रविवक्षया ब्रूते तदाऽसत्यामृषमुच्यत इति विवक्षैवात्र प्रमाणमिति न काचित्क्षतिरिति, एवमन्यत्रापि स्वबुद्ध्या भावनीयमिति, याचनी यथा-भिक्षां प्रयच्छ, तथा पृच्छनी यथा-कथमेतदिति, प्रज्ञापनी यथा-हिंसादिप्रवृत्तो दुःखितादिर्भवति, प्रत्याख्यानीभाषा 20 25 30

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418