Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
परिशिष्टम् - १ * 3८७ किमप्यप्रियमुक्तं भवतीत्येवंप्रकारैरन्यैरपि स्वपरप्रत्ययैः कारणान्तरैर्मनसः प्रद्वेषो भवति यत्र तन्मनसा प्रदुष्टमुच्यते । दशमं दोषमाह-पंचेव वेइआओ'त्ति जानुनोरुपरि हस्तौ निवेश्याधो वेत्यादिना वृत्तिकृता याः पञ्चैव वेदिका निदर्शितास्ताः शिष्यो यत्र करोति तद्वेदिकाबद्ध भण्यते । एकादशं दोषमाह 'भयंतिनिज्जूहणाईअं'त्ति निर्जूहणं गच्छान्निष्काशनं तदादिकं यद्भयं तेन यत्र वन्दते तद् भयवन्दनकमाख्यायते इति सम्भवतः साध्याहारं सर्वत्र व्याख्येयं 5 सूचामात्रत्वात्सूत्रस्येति गाथार्थः । द्वादशं दोषमाह-'भयइ व भइस्सइ व'गाहा, स्मर्त्तव्यं भो आचार्य ! भवन्तं वन्दमाना वयं तिष्ठाम इत्येवं निहोरकं निवेशयन् वन्दते, किमितीत्याह–भयइ व भइस्सइ व ममेतिहेतोः, किमुक्तं भवति ?-एष तावद्भजते–अनुवर्त्तयति मां सेवायां पतितो मे वर्तत इत्यर्थः अग्रे वा मम भजनं करिष्यत्यसौ ततश्चाहमपि वन्दनकसत्कं निहोरकं निवेशयामीत्यभिप्रायवान् यत्र वन्दते तद् भजमानवन्दकमभिधीयते । त्रयोदशं दोषमाह-'एमेव 10 य मेत्तीए'त्ति, एवमेवेति कोऽर्थो ?-यथा-निहोरकदोषादिदुष्टं वन्दते तथा मैत्र्यापि हेतुभूतया कश्चिद्वन्दत एव आचार्येण सह मैत्री-प्रीति इच्छन् वन्दत इत्यर्थः तदिदं मैत्रीवन्दनकमुच्यते । चतुर्दशं दोषमाह-'गारव'त्ति सूचामात्रत्वाद्गर्ववन्दनकमिति प्रत्येयं, कथम्भूतं तदित्याह–'सिक्खाविणीओऽहं'ति, शिक्षा-वन्दनकप्रदानादिसामाचारीविषया तस्यां विनीत:-कुशलोऽहमित्यवगच्छन्त्वमा शेषसाध्वादय इत्यभिप्रायवान् यथावदावर्त्ताधाराधयन् यत्र वन्दत इति गाथार्थः। 15 साम्प्रतं कारणलक्षणं पञ्चदशं दोषमभिधित्सुः कारणस्यैव तावल्लक्षणमाह-'नाणाइतियं' गाहा, ज्ञानदर्शनचारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिहलोकसाधकं वस्त्रादि वन्दनकदानात् साधुरभिलषति तत्कारणं भवतीतिप्रतिपत्तव्यं, ननु ज्ञानादिग्रहणार्थं यदा वन्दते तदा किमेकान्तेनैव कारणं न भवतीत्याशङ्क्याह-यदि पूजार्थं गौरवार्थं च वन्दते, वन्दनकं दत्त्वा विनयपूर्वकं श्रुतं गृह्णामि येन लोके पूज्योऽन्येभ्यश्च श्रुतधरेभ्योऽधिकतरो भवामीति अभिप्रायवान् यदि ज्ञानग्रहणेऽपि 20 वन्दते तदा तदप्येवमेव-कारणमेव भवतीति गाथार्थः । तत्र किमभिप्रायवत इहलोकसाधकं कारणं भवतीत्याह-'आयरतरएण'गाहा, हंदीति इहलोकसाधककारणोपप्रदर्शने, अतिशयादरेण वन्दे–प्रणमाम्येनमाचार्यं तेन च वन्दनप्रदानेन हेतुभूतेन पश्चादमुं किञ्चिद्वस्त्रादि प्रणयिष्ये-याचिष्ये, न चासौ मम प्रणयभङ्ग-प्रार्थनाभङ्ग करिष्यति, कथम्भूतः सन् ? इत्याह-वन्दनकमेव मूल्यं तत्र भाव:-अभिप्रायो यस्य सूरेः स तथाभूतो, वन्दनकमूल्यवशीकृत इत्यर्थः, इत्यभिप्रायवतः 25 कारणवन्दनकं भवतीति गाथार्थः । षोडशं दोषमाह–'हाउं परस्स'गाहा व्याख्या-हापयित्वावञ्चयित्वा परस्य-आत्मव्यतिरिक्तस्य साधुश्रावकादेदृष्टिं 'वंदंतो'त्ति दकारानुस्वारस्यालाक्षणिकत्वाद्वन्दमानस्य शिष्यस्य स्तैन्यं वन्दनकं भवति, एतदेव स्पष्टतरं व्याचष्टे-स्तेन इव-तस्कर इवान्यसाध्वाद्यन्तर्धानेनात्मानं गृहयति-स्थगयति, कस्मादित्याह-'उब्भावणा मा मे'त्ति नन्वसावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छति ? इत्येवम्भूताऽपभ्राजना मम मा भूदित्येष 30

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418