Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
5
10
परिशिष्टम् - १ * 3८८ यन्निति कोऽर्थः ?-शोधयिष्यन्नित्युक्तं वेदितव्यं, केन ?-प्रायश्चित्तेन, कथम्भूतेन ?-आलोचनाhण प्रतिक्रमणाहेण च, तत्र "खमासमणाणं देवसियाए आसायणाए" इत आरभ्य यावत् "जो मे अइआरो कओ" इत्येषा आलोचनार्हप्रायश्चित्तेन शुद्धिः, अनेन ह्येतावत्प्रमाणेनानन्तरमेव वक्ष्यमाणसूत्रेण किलातिचारं गुरोरालोचयिष्यति-निवेदयिष्यतीत्यर्थः, "तस्स खमासमणो ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामीति" एषा तु प्रतिक्रमणार्हप्रायश्चित्तशुद्धिः, अनेन हि किलातिचारान्प्रतिक्रम्याकरणतयाभ्युत्तिष्ठतीति । 'यथाऽर्थो व्यवस्थित' इत्यादि (१८०२), वन्दनकदातुरात्मनश्चेतसि व्यवस्थितोऽर्थो गुरोः स्वकीयमतिचारमालोच्य तस्मात्प्रतिक्रमणीयं मयेत्येवंलक्षणस्तं 'आवस्सियाए पडिक्कमामि खमासमणाण'मित्यादिसूत्रोच्चारणरूपेण क्रियाद्वारेण प्रदिदर्शयिषुनिष्क्रामत्यवग्रहादिति भावार्थः। 'अधुनेहभवान्यभवगतातीते'त्यादि (१८१-९), अनागतकाले कथमाशातनासम्भव इति चेदुच्यते-कल्येऽस्य सूरेरिदमनिष्टमहं करिष्यामीति चिन्तातः सम्भवत्येव, इहभवे तावदित्थं भवान्तरेऽपि तद्विधनिदानादिकरणसम्भवाद् घटत एवेति । 'इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्त' इत्यादि (१८६-११), सूत्रेऽपि किल 'चउसिर'मित्यत्र वारद्वयशिरोनमनलक्षणो वन्द्यगतोऽपि विधिरुक्तोऽतः प्रायोग्रहणमकारि, स्यान्मति:-'चउसिर'मितिनियुक्तिकृता प्रोक्तं न सूत्र इति, सत्यमिदं, किन्तु नियुक्तिकृता सूत्राभिप्रायस्यैव व्यक्तिकृतत्वाददोष इति समाप्तं वन्दनकाध्ययनमिति।
. इदानीं प्रतिक्रमणाध्ययनमारभ्यते । तत्र 'स्वस्थानाद्यत्परस्थान'मित्यादिश्लोको (१९१-१०), व्याख्या–यदिति यस्मादसौ प्रतिक्रामकः स्वस्थानात्–शुभयोगलक्षणात् परस्थानं-अशुभयोगलक्षणं प्रमादवशेन गतस्तस्मात्तत्रैव-शुभयोगलक्षणे स्वस्थाने यत् क्रमणं-गमनं तत्प्रतिक्रमणमुच्यते । 'अक्खोडभंगपरिहरणा'त्ति (१९७-९) अक्खोडं-लाङ्गलादिभिरक्षुण्णं जनपदानाक्रान्तभूमण्डलमुच्यते तद् ये भञ्जन्ति-लाङ्गलादिभिराक्रामन्ति तत्प्रथमतया वासयन्तीतियावत् . निपातनात्ते अक्खोडभङ्गास्तेषामनुग्रहेण परिहरणा राजदेयभूमिकरादेरितिगम्यते, ये हि तत्प्रथमतया नगरनिवेशे राजादेशादिनाऽन्यतः कुतश्चिदागत्य तत्रावसथानि कुर्वन्ति भूमीश्च खिलाः खेटयन्ति तेषां राजाऽनुग्रहेण करं मुञ्चति, साम्प्रतमपि वरुकभञ्जका इति संज्ञया पल्लिकादिस्थानेषु रूढा एवामी इत्येषाऽनुग्रहपरिहरणेति । ‘एगाए अविरइआए पगयं जंतियाए' इत्यादि (२१८-८), कथानिका-एकया कयाचिद् योषिता ‘पगर्य'ति विवाहाद्युत्सवं कञ्चिद् गच्छन्त्या कस्यचित्समीपे सुवर्णकटकद्वयं याचितं, तेनापि 'रुवएहिं बंधएण'त्ति बन्धकशब्देनेह ग्रहणकमुच्यते, ततश्चायमर्थ:-तन्मूल्यप्रमाणान् कान् ग्रहणके धृत्वा कटकद्वयं दत्तं, इतरयाऽपि योषिता ते कटके निजदुहितुर्हस्ते क्षिप्ते, ततश्च वृत्तेऽपि तस्मिन्प्रकरणे विस्मरणादिना न तया कटकस्वामिनः कटके समप्पिते, शेषं सुगमं । 'आभोगे जाणंतेण'गाहा (२३०-१), ज्ञात्वाप्यकार्यासेवनमा-
15
20
25
30

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418