Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 411
________________ 15 3८८ * भारी उभयन्द्रसूरिकृत टीप्पा (भाग-५) गाथार्थः । प्रत्यनीकत्वरुष्टत्वलक्षणदोषद्वयप्रतिपादनायाह-'आहारस्स उगाहा निगदसिद्धा । एकोनविंशं दोषमाह-'नवि कुप्पसि'गाहा, काष्टघटितशिवदेवताविशेष इवावन्द्यमानो न कुप्यसि तथा वन्द्यमानोऽप्यविशेषज्ञतया न प्रसीदस्येवं तर्जयन् वन्दते-निर्भर्त्सयन् यत्र वन्दते तत् तज्जितमुच्यते, यदिवा मेलापकमध्ये वन्दनकं मां दापयन् तिष्ठस्याचार्य ! परं ज्ञास्यते तवैकाकिन इत्यभिप्रायवान् यदा शीर्षेणाङ्गुल्या वा प्रदेशिनीलक्षणया तर्जयन् गुरुं प्रणिपतन्-वन्दमानस्तजयन् वन्दते तद्वा तज्जितं भवतीति गाथार्थः । विंशतितमं दोषमाह- 'वीसंभट्ठाण'गाहा, विनम्भोविश्वासः तस्य स्थानमिदं वन्दनकं एतस्मिन् यथावद्दीयमाने श्रावकादयो विश्वसन्तीत्यर्थः इत्यभिप्रायेणैव सद्भावजढे-सद्भावरहितेऽन्तर्भावनाशून्ये वन्दमाने शिष्ये शठमेतद्वन्दनकं भवतीति, शठशब्दमेव पर्यायशब्दाचष्टे-'कवडंती'त्यादि सुगममिति गाथार्थः । एकविंशतितमं दोषमाह-'गणिवायग'गाहा, गणिन् ! वाचक ! ज्येष्ठार्य ! किं त्वया वन्दितेनेत्यादि सोत्प्रासं हीलित्वा यत्र वन्दते तद् हीलितवन्दनकमुच्यते । द्वाविंशं दोषमाह-'दरवंदिय'मित्यादि सुबोधमिति गाथार्थः । दृष्टादृष्टदोषं शृङ्गदोषं चाह–'अंतरिओ'गाहा, बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितः तमसि वा–सान्धकारप्रदेशे व्यवस्थितो मौनं विधायोपविश्य वाऽऽस्ते न तु वन्दते दृश्यमानस्तु वन्दते एतदृष्टादृष्टं वन्दनकमभिधीयते, 'सिंगं पुण कुंभपासेहिं ति . कुम्भशब्देनेह ललाटमुच्यते तस्य पाझे-वामदक्षिणरूपौ ताभ्यां यद्ददाति तद्वन्दनकं श्रृङ्गमुच्यते, एतदुक्तं भवति–अहोकायं कायमित्यादि आवर्तान कुर्वन कराभ्यां न ललाटस्य मध्यदेशं स्पशति किन्तु ललाटस्य वामपार्श्व दक्षिणपार्श्व वा स्पृशतीति गाथार्थः, गाथापूर्वार्द्धन करलक्षणं पश्चार्द्धन तु मोचनलक्षणं दोषमाह-'करमिव'गाहा, निगदसिद्धा । सप्तविंशं दोषमाह-'आलिद्धमणालिद्धं'गाहा, आश्लिष्टमनाश्लिष्टं चेतिपदद्वयमाश्रित्य रजोहरणशिरसोर्विषये चतुर्भङ्गिका भवति, सा च अहोकायं काय इत्याद्यावर्त्तकाले सम्भवति, रजोहरणं कराभ्यामाश्लेषयति शिरश्चेत्यादिना वृत्तिकृता दर्शितैव, अत्र प्रथमभङ्गस्य शुद्धत्वाच्छेषभङ्गत्रये आश्लिष्टानाश्लिष्टदोषदुष्टं प्रकृतवन्दनकमवतरति । अष्टाविंशं दोषमाह-वचनं-वाक्यं क्रियान्ताक्षरसमूहात्मकं तेनाक्षरैर्वा एकद्व्यादिभिः हीनं-न्यूनमुच्यते, यदिवा 'जहन्नकाले व सेसेहिति यदि पुनः कश्चिदत्युत्सुकः प्रमादितया जघन्येनैव-अतिस्वल्पेनैव कालेन वन्दनकं समापयति तदा आस्तां वचनाक्षरैः शेषैरपिअवनामादिभिरावश्यकैथूनं भवतीति गाथार्थः । 'दाऊणं'गाहा 'ढड्डर'गाहा चूंलिकादिदोषचतुष्टयप्रतिपादकं गाथाद्वितयमप्येतन्निगदसिद्धं वृत्तिकृद्व्याख्यानानुसारतश्च विवेचनीयमिति ॥ वन्दनकाध्ययनमिदमुच्यते तत्र वन्दनकार्थो निरूपितः, साम्प्रतमध्ययनशब्दार्थस्यावसरस्तत्राह'अत्रान्तरेऽध्ययनशब्दार्थ' इत्यादि (१७५-१०) । 'प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरण'मित्यादि (१७८-१०), तच्छब्देनेह रजोहरणं परामृश्यते, न केवलं “तल्ललाटं चेतियोगः, शेषं सुगमं । 'ततो विनेयः प्रणम्यैवं क्षमयित्वे'त्यादि (१७९-११), तत्र शोध 20 25 30

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418