Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 409
________________ 10 3८६ * मापारी उभयन्द्रसूरत टीप15 ((भाग-५) यदुपचाररहितं, एतदेव व्याचष्टे-यद्वन्दनकं गुरुभ्योऽप्यन्-दददनियन्त्रितो भवति-अनवस्थित इत्यर्थः, अनवस्थितत्वेन च यत्र वा तत्र वा स्थाने प्रथमप्रवेशादिलक्षणेऽसमाप्तमपि वन्दनकमुज्झित्वा नश्यति, क इव यथा किमुज्झतीत्याह-'कयकिच्चो वक्खरं चेव'त्ति, एतदुक्तं भवति–यदा केनचिद्भाटकेन कुतश्चिन्नगरान्नगरान्तरे 'वक्खरं' भाण्डमुपनीतं, वक्खरस्वामिना च भाटिकोऽभिहित:-प्रतीक्षस्व कञ्चित्कालं यावदस्य वक्खरस्यावतरणाय स्थानं किञ्चिदन्वेषयामि. स प्राह-मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोक्तं अतः कृतकृत्यत्वान्नातः परं प्रतीक्षेऽहमित्युक्त्वाऽस्थान एव तद्भाण्डमुज्झित्वा गच्छति, एवं साधुरप्यस्थान एव वन्दनकं परित्यज्य नश्यति इत्येतावता दृष्टान्त इति गाथार्थः । चतुर्थं दोषमाह 'संपिडिए व'गाहा, यत्र संपिण्डितान्–एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दते न पृथक् २ तत् परिपिण्डितं वन्दनकमुच्यते, अथवा वचनानि-सूत्रोच्चारणगर्भाणि करणानि-करचरणादीनि संपिण्डितानिअव्यवच्छिन्नानि वचनकरणानि यस्य स तथा, उर्वोरुपरि हस्तौ व्यवस्थाप्य संपिण्डितकरचरणौ अव्यक्तसूत्रोच्चारणपुरस्सरं यत्र वन्दते तद्वा परिपिण्डितमिति भावः । पञ्चमं दोषमाहउत्प्वष्कणं-अग्रतः सरणं अभिष्वष्कणं-पश्चादपसरणं ते उत्ष्वष्कणाभिष्वष्कणे टोलवत्-तिड्डवद् उत्प्लुत्य २ करोति यत्र तट्टोलगतिवन्दनकमिति गाथार्थः । षष्ठं दोषमाह–'उवगरणे'गाहा, यत्राङ्कशेन गजमिव शिष्य आचार्यमूर्ध्वस्थितं शयितं प्रयोजनान्तरव्यग्रं चोपकरणे-चोलपट्टककल्पादौ हस्ते वाऽवज्ञया समाकृष्य वन्दनदानार्थमासने उपवेशयति तदङ्कुशवन्दनकमुच्यते, न हि पूज्याः कदाचिदप्युपकरणाद्याकर्षणमर्हन्ति, अविनयत्वात्, किन्तु प्रणामं कृत्वा कृताञ्जलिपुटैविनयपूर्वमिदमुच्यते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीत्यतो दोषदुष्टमिदं, एतच्च वृत्तिकृता अन्यथा व्याख्यातं तत्त्वं तु विशिष्टश्रुतविदो विदन्तीति । सप्तमं दोषमाह–स्थितस्योर्ध्वस्थानेन 'तेत्तीसन्नयराए' इत्यादि सूत्रमुच्चारयतः, उपविष्टस्य वाऽऽसीनस्य अहोकायं काय इत्यादिसूत्रं भणत: कच्छपस्येव-जलचरजीवविशेषस्येव रिङ्गनं-अग्रतोऽभिमुखं प्रागभिमुखं च यत्किञ्चिच्चलनं तद्यत्र करोति शिष्यः तदिदं कच्छपरिङ्गितं नामेति गाथार्थः । अष्टमं दोषमाह-'उटुंतनिवेसिंतो' गाहा, उत्तिष्ठन्निविशमानों वा जलमध्ये मत्स्य इवोद्वर्त्ततेउद्वेलयति यत्र तन्मत्स्योद्वृत्तं अथवा एकमाचार्यादिकं वन्दित्वा तत्समीप एवापरं वन्दनाहँ कञ्चन वन्दितुमिच्छंस्तत्समीपे जिगमिषुरुपविष्ट एव झष इव-मत्स्य इव त्वरितमङ्गं परावृत्त्य यत्र गच्छति तद्वा मत्स्योद्वृत्तं इत्थं च यदङ्गपरावर्तनं तद्रेचकावर्त्त इत्यभिधीयत इति गाथार्थः । नवममाह-'अप्पपरपच्चएणं'गाहा, मनःप्रद्वेषोऽनेकोत्थान:-अनेकनिमित्तो भवति, स च सर्वोऽपि आत्मप्रत्ययेन परप्रत्ययेन वा स्यात्, तत्रात्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित्परुषमभिहितो भवतीति, परप्रत्ययेन तु यदा तस्यैव शिष्यस्य सम्बन्धिनः सुहृदादेः सम्मुखं सूरिणा १. रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दत इति वृत्तौ । 20 25 30

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418