Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 417
________________ 5 ४०४ * भसधारी उभयन्द्रसूरित 241: (भाग-4) नेतो'त्ति (३४४-१) अद्धाया:-कालस्याकारोऽद्धाक्षेत्रं-मनुष्यक्षेत्रं तदाकृति यः, सूर्यक्रियाभिव्यङ्ग्यो हि कालः किल मनुजक्षेत्र एव वर्तते, अतो य एव तस्याकारः स एव कालस्याप्युपचारतो विज्ञेय इति गाथार्थः । सेलीसीति प्राकृतनामाधिकृत्य व्युत्पत्तिमाह–'अहवा सेलोव्व इसी'गाहा (३६७-७), व्याख्या सेल इव इसी-महर्षिः शैलेशीति भवति, ननु शैलेशी तस्य. महर्षेः काचिद्विशिष्टाऽवस्थैवोच्यते कथं शैलेशीप्रतिपत्ता मुनिरप्येवं व्यपदिश्यत ? इत्याह–सोऽप्येवं व्यपदेश्यो भवति स्थिरतया हेतुभूतया, स हि महर्षिस्तस्यामवस्थायां शैलवत् स्थिरो भवतीति शैलेशीत्युच्यते, एनमेव प्राकृतशब्दमधिकृत्य व्युत्पत्त्यन्तरमाह-'सो वे'ति वाशब्दः पक्षान्तरद्योतकः, स शैलेशीप्रतिपत्ता मुनिः 'अलेसी होई'त्ति तस्यामवस्थायामलेश्यः-समस्तलेश्याविकलो भवतीतिकृत्वा, अलेशीतिपदसम्बन्धिनोऽकारस्य लोपं कृत्वा सेलेशीति प्राकृतशब्देन सेलेसी प्रतिपत्ताभिधीयत इति गाथार्थः । समाप्तं ध्यानशतं ।। ॥ इति मलधारीहेमचन्द्रसूरिकृतटीप्पणकस्य पञ्चमो विभागः समाप्तः ॥ 10

Loading...

Page Navigation
1 ... 415 416 417 418