Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 416
________________ परिशिष्टम् - १ * ४०3 इत्यादि कारिका पुनरादित आवर्त्यते, तत्र च 'नियुक्ते राशिरन्त्य'मितिवचनादिदानीं पञ्चविंशतेरन्त्यसंज्ञा तस्याश्च. घनः किल मीलित एवास्तेऽतः स्थाप्योऽन्त्यघन इत्युल्लङ्ञ्यान्त्यकृतिः क्रियते, तत्र जातानि पञ्चविंशत्यधिकानि षट् शतानि, त्रिगुणिते जातानि पञ्चसप्तत्यधिकानि अष्टादश शतानि, पञ्चविंशते: पूर्वः षट्कस्तेन गुणिते जातानि सार्द्धशतद्वयाधिकानि एकादशसहस्राणि स्थानाधिक्येन स्थाप्यन्ते यथा-८५२५० अनेन चानन्तरविधिना तावैव पूर्ववद्वावित्येतद् व्याख्यातं, तौ 5 द्विकपञ्चकलक्षणौ ६१२५० पदविशेषौ पूर्वपूर्ववद् वावित्यस्यानुष्ठितत्वादुपलक्षणं चैतत् त्रिगुणषड्गुणत्वयोरिति,१० | आद्यस्य षट्कस्य कृतिरन्त्यभूतया पञ्चविंशत्या गुणिता त्रिगुणिता च जातानि सप्तशता१नि विंशतिः पूर्वराशौ स्थानाधिक्येन स्थाप्यते, तद्यथा-८५२५०० आद्यस्य षट्कस्य घने जातं शतद्वयं षोडशाधिकं स्थानाधिक्येन पूर्वराशौ क्षिप्यते, ६१२५० तद्यथा-८५२५२१६ अनेन च वर्गघनौ कुर्वतां तृतीयराशेः षट्कलक्षणस्येत्येतद् |११२७ । 10 व्याख्या ६१२५० तं, ननु यथा षट्कस्य वगर्गो विहितस्तथा पञ्चविंशत्या त्रिभिश्च १ गुणित- ११२७ स्तत्कथं लभ्यते ? इत्याह–'ततः प्राग्वदिति यदनुक्तं तत् पूर्ववत् सर्वं विधेय-१ मिति भावः, अस्मिश्च राशौ मीलिते आगतं १६७७७२१६ । एतामेव कारिकां वृत्तिकृद् व्याचष्ठे–'कृत्वा विधान'मित्यादि, 'पूर्वपदस्य घनादि' इत्यादि पूर्वपदस्य द्विकलक्षणस्य घनो विधेयः आदिशब्दादवन्यादौ स्थापनं च कृत्वा तस्यैव द्विकलक्षणस्य पदस्य 15 वर्ग: आदिशब्दात् त्रिगुणकरणादिपरिग्रहः ततो द्वितीयस्य पदस्य पञ्चकलक्षणस्येदमेव यद् द्विकस्य कृतं तद्विपरीतं क्रियते, एतदुक्तं भवति–द्विकस्य प्रथमं घनादि कृतं ततो वर्गादि पञ्चकस्य तु प्रथमं वर्गादि ततो घनादि क्रियते एतच्च सर्वं कृतमेव भावनीयं, तदेतावता कृत्वा पूर्वविधानमिति व्याख्यातं, साम्प्रतं 'तावेव पूर्ववद्वा 'वेतद् व्याचष्टे-एतावेव द्विकपञ्चकौ वग्र्येते इति वर्गघनौ कुर्यातामित्यादि व्याख्यानयति, ततः षट्कलक्षणस्य तृतीयपदस्येत्यादि, 20 एतच्च सर्वं केषुचित्पुस्तकेषु न दृश्यते तेषु च दुरवगमत्वेनोत्सारितमिति लक्ष्यते बहुष्वादर्शेषु दर्शनादित्यलं प्रसङ्गेनेति । 'संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षण'मित्यादि (३४३-५), एतदुक्तं भवति-मुख्यवृत्त्या तावत्परिमण्डलसमचतुरस्रायेव रूपिद्रव्यसम्बन्धि संस्थानमुच्यते धर्माधर्माकाशानां त्वमूर्त्तत्वेन मुख्यवृत्त्या न सम्भवत्येव संस्थानं, किन्तु लोकेन सर्वतोऽवच्छिन्नं सदुपचारतस्तु प्रतिष्ठकाद्याकारं लोकक्षेत्रमुच्यते धर्माधर्मयोरपि तद्वृत्तित्वात् तन्निबन्धन एवोपचारतः 25 संस्थानव्यवहारः अत एवाह 'धर्माधर्मयोरपि लोकक्षेत्रे'त्यादि (३४३-१०), ननु लोकक्षेत्रस्यैव किं संस्थानमित्याह–'हिट्ठा मज्झे' गाहा व्याख्या–अधस्तान्मध्ये उपरि च यथासंख्यं छव्विझल्लरिमृदङ्गसंस्थानो लोकोऽवसेयः तत्र छव्वी नाम विस्तीर्णा पुष्पचङ्गेरी तदाकारोऽधोलोकः, तिर्यग्लोको झल्लाकारः, ऊर्ध्वलोकस्तु मृदङ्गाकार इति, नन्ववगतमुक्तक्रमेण धर्माधर्माकाशजीवपुद्गलानां संस्थानं, अथ कालस्य किं संस्थानमित्याह–'अद्धागारो अद्धाखित्तागिती 30

Loading...

Page Navigation
1 ... 414 415 416 417 418