Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 414
________________ परिशिष्टम् - १ * ४०१ साधवे ददातीति संटङ्को, यदिवा तदग्रकूरं स्थाल्या उद्धृत्त्यान्यस्मिन् भाजने कृत्वा - उत्सार्येत्यर्थः, ततश्च तस्यां स्थाल्यामुद्धृते अग्रकूरे यच्छेषं स्थितं तन्मध्यादपि यदि ददाति तथापि मण्डीप्राभृतिकैवेति गाथार्थ: । 'चंडरुद्दो आयरिओ उज्जेणि' मित्यादि (२६९-१), अत्र अणुजाणशब्देन रथयात्रोच्यते । ऋद्धिप्राप्त्यभिमानाप्राप्तिसंप्रार्थनद्वारेणेति ( २७४ - ११), एतदुक्तं भवति–ऋद्धिप्राप्तौ सत्यामभिमानं - अहंकारलक्षणं करोति अप्राप्तौ च प्रार्थनं तद्द्वारेण चाशुभभावगौरवमात्मनः पुष्णाति एवं रसादिष्वपीति ॥ 'अविवित्तयाए'त्ति (२७९-३), एतदुक्तं भवति-यदा क्षणदृष्टनश्वरेभ्यो धनकनकादिभ्यः स्वात्मानमनाद्यनिधनमपि विविक्तंपृथग्भूतं न पश्यति किन्तु तद्धनकनकादिकं स्वतत्त्वतयाऽध्यवस्यति तदा अविविक्ततया तीव्र परिग्रहसंज्ञा प्रादुरस्ति । 'भत्तकहावि चउव्विहेत्यादि (२८० - ४), गाथात्रयं - इह भक्तकथा चतुर्द्धा, तद्यथा— आवापकथा निर्वापकथा आरम्भकथा निष्ठानकथा चेति, एतानेव चतुरो भेदान्विवृणोति–‘आवावे'त्ति इत्यादि, 'आरंभे'त्यादि (२८० -५) अमुकस्य राज्ञः सार्थवाहादेर्वा रसवत्यां दश शाकविशेषाः पञ्च पलानि सर्पिस्तथाऽऽढकस्तन्दुलानामुपयुज्यत इत्यादि यदा सामान्येन विवक्षितरसवतीद्रव्यसंख्याकथां करोति सा आवापभक्तकथोच्यते, 'दसपंचरूव' इति रूपशब्दो भेदवचन:, किमुक्तं भवति ? – पुनरेकैकस्मिन् शाके दशधा पञ्चधा वा संस्कृते सति सर्व्वेऽप्येतावन्तो व्यञ्जनभेदा. भवन्त्येतावन्तश्च कूररूपादिभेदास्तत्र जायन्ते इत्यादि विशेषतो व्यञ्जनभेदादिकथा निर्वापभक्तकथेष्यते । 'आरंभ'ति आरम्भभक्तकथा केत्याह-ग्रामनगराद्याश्रयाश्छागमहिषादयः आरण्यका – आटविकास्तित्तिरकुरङ्गलावकादयः एतावन्तोऽमुकस्य रसवत्यां हत्वा संस्क्रियन्त इत्येवंरूपा, निष्ठानकथामाह - अमुकस्य रसवत्यां रूपकशतं लगत्यमुकस्य पञ्च शतानि तावद्यावदमुकस्य लक्षपाका रसवती भवतीत्येवंस्वरूपा निष्ठानकथेति गाथाद्वयार्थः । देशकथा चतुर्द्धा तद्यथा—छन्दकथा विधिकथा विकल्पकथा नेपथ्यकथा, तत्र छन्दकथामाह – 'छन्दो गम्मागम्म'मित्यादि सुगमं नवरं 'अन्नेसिं एगा पंचन्ह त्ति (२८१ - ३) अन्येषां क्वचिद्देशे पञ्चानामेकैव भार्या भवति, विधिविरचनोच्यते तत्कथामाह - 'भोअणे' त्यादि (२८१-४) सुगमा, नवरं चउरंतगः–परिणयनस्थानं चतुरिकोच्यते, शस्यनिष्पत्त्यादिका विकल्पकथा सुगमा । नेपथ्यकथामाह—–‘इत्थीण'मित्यादि सुबोधं, नवरं 'भेडिंग' त्ति (२८२ -१), जालिकारहिता कञ्जुलिकोच्यते पृष्ठिखडपकस्य भेदितत्वाद् - जालिकारहितत्वेन निरन्तरत्वादितिभावः । 'जालिग'त्ति अनेन सैव जालिकासहितोच्यते, एवं तावद् गम्यतेऽभियुक्तेन त्वन्यथापि भाव्यमिति । राजकथा चतुर्द्धा, तद्यथा-निर्गमकथा प्रवेशकथा बलवाहनकथा कोशकोष्ठागारकथेति चतुर्विधापि पाठसिद्धा, नवरं - 'चामीयरसूरवपुत्ति (२८२-३), चामीकरं - सुवर्णं सूर्य्यः- आदित्यस्तद्वत् कान्तं— दीप्तिमद् वपुर्यस्य राज्ञः स तथा । इदानीं ध्यानशतमारभ्यते । 'किं तर्हि ? - भावनानुप्रेक्षात्मकं चेत' इति (२८९-११) एतदुक्तं भवति - यदा धर्म्मध्यानादवतरति तदा एकोऽहमशरण- 30 5 10 15 20 25

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418