Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
10
15
४०२. * भतधारी डेभयन्द्रसूरिकृत टी५is (भाग-4) श्चेत्याद्या इहैव वक्ष्यमाणा अनुप्रेक्षा विभावयति, पुनरपि च धर्मध्यानादिध्यानमारुरुक्षु
र्भावना:-ज्ञानदर्शनाद्या वक्ष्यमाणस्वरूपाः परिभावयति, एतद्ध्यानान्तरमुच्यते न पुनरेकस्माद् ध्यानादवतीर्यानन्तरमेवान्यद् ध्यानं प्रतिपद्यते अनुप्रेक्षाभावनान्तरितं तु प्रतिपद्यते ततोऽप्युत्तीर्णस्यायमेव क्रम इत्येवं ध्यानसन्तानो भवत्यपीति । 'पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेने'त्यादि (२९३-१), यदतीतकाले ममामुकः संयुज्य वियुक्तः आदित एव वा न संयुक्तस्तत्सुन्दरमभूद् इत्यतीतमनुमोदमानस्या-तीतकालविषयमप्यार्तं भवतीति । 'जूइयरसोलमिंठा'गाहा (३१९-४) सुगमा, नवरं सोला:- स्थानपालाः उद्भ्रामका:-पारदारिकाः । 'आज्ञापायविपाकसंस्थानविचयाय धर्म'मिति (३२७-८), विचय: परिचयोऽभ्यास इत्यनान्तरं, अनन्तरवक्ष्यमाणन्यायेनाज्ञाद्यभ्यासाय प्रवर्त्तमानस्य धर्मध्यानं भवतीत्यर्थः । 'किं च प्रदेशभिन्नं शुभाशुभं यावत् कृत्वा पूर्वविधान'मित्यादि (३४१-२) पूर्वमहर्षिवचनत्वाद्गम्भीरमिदमस्मादृशामगम्यं, आम्नायानुसारतस्तु गमनिकामात्रं किञ्चिदुच्यते-इह प्रदेशभिन्न:-शुभाशुभरूप: कर्मविपाको भावनीयः, प्रदेशाश्च जीवस्य कर्माणवोऽभिधीयन्ते, तैश्च कियद्भिरेकैको जीवप्रदेश आवेष्टितः परिवेष्टित इति चिन्तनीयं, अयं च प्रदेशबन्धः कर्मप्रकृत्यादिषु विस्तरेणाभिहितोऽत एव शुभाशुभं यावदित्यत्र शास्त्रकृद् यावच्छब्दं चकार, स चात्र संक्षेपतः कथ्यते–असंख्यातप्रदेशस्यापि जीवस्यासत्कल्पनया किल षट्पञ्चाशदधिके द्वे शते प्रदेशानां स्थाप्यते २५६, अस्य चैतावन्मानस्य राशेर्घनीकृतस्य यदागतं फलं तावत्प्रमाणैः, कर्मप्रदेशैः किलते जीवप्रदेशा आवेष्टिताः, बहुत्वप्रदर्शनमात्रं चेदं, एकैकस्यापि जीवप्रदेशस्यानन्तानन्तकर्मवर्गणावेष्टितत्वात्, तत्रास्य कल्पितजीवप्रदेशराशेर्घनीकरणार्थं करणकारिकामाह- कृत्वा पूर्वविधान'मित्यादि (३४१४), अस्याश्चार्थ:
___ 'स्थाप्योऽन्तघनोऽन्त्यकृतिः, स्थानाधिक्यं त्रिपूर्वगुणिता च ।
___ आद्यकृतिरन्त्यगुणिता त्रिगुणा च घनस्तथाऽऽद्यस्य, ॥१॥' एतत्कारिकानुसारतो गणितविधिज्ञेन विज्ञेयः, तंत्र ‘स्थाप्योऽन्त्यघन' इति अन्त्योऽत्र द्विकस्तस्य घनोऽष्टौ ८ स्थाप्यन्ते, 'अन्त्यकृति'रिति अन्त्यस्य द्विकस्य कृतिः-वर्गश्चत्वारः, 'त्रिपूर्वगुणिता चेति त्रिभिः पूर्वेण च पञ्चकेन गुण्यते जाता षष्टिः 'स्थानाधिक्य मिति सा षष्टिः पूर्वस्थापिताष्टकस्याधस्तात्स्थानाधिक्येन स्थाप्यते तद्यथा - 'आद्यकृति'रिति द्विकापेक्षया आद्य: पञ्चकस्तस्य कृतिः पञ्चविंशतिः, 'अन्त्यगुणिते'ति एषा कृतिरन्त्येन द्विकेन गुणिता जाता पञ्चाशत् 'त्रिगुणा चेति सा त्रिगुणिता जातं सार्द्धशतं, तच्च स्थानाधिक्येन स्थाप्यते-८५० 'घनस्तथाद्यस्ये'ति आद्यः पञ्चकस्तस्य घनः पञ्चविंशत्यधिकं शतं तदपि स्थानाधिक्येन ६ स्थाप्यते तद्यथा-८५२५/ एतावती च प्रक्रिया पूर्वगणितकारसंज्ञया पूर्वविधानमित्यु-१ । च्यते अत एताव ६१ ता ‘कृत्वा पूर्वविधानं पदयो'रित्येतद्व्याख्यातमवसेयं, स्थाप्योऽन्त्यघनो
25
30

Page Navigation
1 ... 413 414 415 416 417 418