Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 413
________________ ४०० * भतधारी उभयन्द्रसूरिकृत टीप्प3 (भाग-4) भोगस्तस्मिन्नाभोगे सति प्रतिक्रमणं भवतीतिसम्बन्धः, कस्य ?-जानानेन योऽतिचारः कृतरतस्य, क्व सति ?-पुनर्जातेऽनुतापे सति, 'अजाणया इयरो'त्ति इतर:-अनाभोगोऽजानानस्याकार्यमासेवमानस्य भवतीति गाथार्थः । अस्या एव गाथाया 'इयरो'त्ति चरमावयवं किञ्चिद्विषमं मन्यमानो वृत्तिकृद्विवृणोति-'अनाभोग' इति (२३०-२), प्रथमैकवचनान्तपदेन सहसाकारे इत्येतत्सप्तम्येकवचनान्तं पदं मन्तव्यमिति, 'इत्थंलक्षणे' इति 'पुटिव अपासिऊण'मित्याद्यनन्तरं वक्ष्यमाणलक्षणे सहसाकारे प्रतिक्रमणं भवतीति हृदयं, क्वचित्त्वनाभोग इतिपदं विसर्गरहितं कृत्वा अनाभोगसहसागारे इत्थंलक्षण इति पाठो दृश्यते स चाशुद्ध एवेति लक्ष्यत इति । 'बीओ विही अणागयपरित्ताणे भाणियव्वो'त्ति (२४३-८) मदीयौषधस्यैकस्तावदेष विधिः यदुत रोगेऽसति रूपलावण्यादीन् करोति तथा द्वितीयोऽप्यनागतरोगपरित्राणे विधिर्वाच्यः, अनेनौषधेनोपयुक्तेन अनागता अपि रोगा न प्रादुर्भवन्तीत्यपि वाच्यमित्यभिप्राय इति । 'अरहंता ताव तर्हिगाहा 'अणुभावं'गाहा (२४६-६) व्याख्या-अर्हत्सिद्धादिषु मध्येऽर्हन्तस्तावद् भावलोकस्योत्तमा भवन्ति. कस्माद ?-'यदि ति यस्मादौदयिकस्य भावस्य नियमात ते उत्तमा भवन्तीति द्वितीयगाथापर्यन्ते सम्बन्धः, औदयिको हि भावस्तेषां सर्व्वदैवोत्तमो भवतीत्यर्थः, किं कृत्वा ?–अनुभावं-रसं प्रतीत्य–तदुदयमाश्रित्येत्यर्थः, केषां सम्बन्धी योऽनुभाव इत्याह-आर्षत्वेन वचनादिव्यत्ययावेदनीयायुर्नामगोत्राणां, कथम्भूतानां ?-सर्वासां कर्मप्रकृतीनां मध्ये प्रशस्तानां, वेदनीयादीनि हि भवोपग्राहीणि, घातिकर्मापेक्षया स्वरूपेणैव प्रशस्तानि, विशेषतस्तीर्थकृतां शुभानुभावान्येव भवन्तीति गाथाद्वयार्थः । भवोपग्राहिमूलप्रकृतिचतुष्टयापेक्षमुत्तमत्वमभिधाय तदुत्तरप्रकृत्यपेक्षयैवाह–‘एवं चे'त्यादि (२४६-९) सुगमं । क्षायिकभावापेक्षमर्हतामुत्तमत्वं प्रतिपिपादयिषुः 'खाइयभावस्स पुणो' इत्यादि (२४७-६) सार्द्धगाथामाह, व्याख्या क्षायिकभावलक्षणस्य लोकस्य नियमात्ते उत्तमा भवन्तीति गाथाचरमान्ते योगः, क्व सतीत्याह-भावक्षये-भावतः-परमार्थतो योऽसौ क्षयस्तस्मिन्सति न पुन: “ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥" इत्यादिसौगतादिकल्पिते, किं कृत्वा यो भावक्षय इत्याह-निःशेषक्षयं प्रतीत्य, केषां निःशेषक्षय ? इत्याह-'एतेसिं'ति एतेषां, तान्येव दर्शयति-द्वयोरप्यावरणयोः-ज्ञानदर्शनावरणलक्षणयोर्लुप्तविभक्तित्वान्निर्देशस्य, तथा मोहान्तराययोरित्येषां निःशेषक्षयमाश्रित्येति सार्द्धगाथार्थः । सान्निपातिकभावसम्बन्धित्वेनोत्तमत्वमाह-'हवइ पुणो' इत्यादि (२४७-८) सुबोधं । 'निर्लेप-पृथुकादी'ति (२५२-९) पृथुकशब्देन पहुंको भण्यते, स हि किलोदूखले कण्डितो भज्जितश्च वतिनां ग्राह्यो भवति नान्यथेति । 'मंडीपाहुडि'गाहा (२६२-५) मण्डीप्राभृतिकोच्यते, केयमित्याह-साधावागते 'अग्गकूर मंडीए'त्ति सिद्धान्तशैल्या किलाग्रकूर-संस्कृतभक्तशिखागतौदनलक्षणं मण्डीशब्देनोच्यते, ततश्चाग्रकूर-मण्डी तस्या मध्यात् किञ्चिदुत्क्षिप्य 'तो'त्ति ततः 25 30

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418