Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 407
________________ ३८४ * भारी मयन्द्रसूरत टीप्पा (भाग-4) भवद्भिरभ्युपगम्यते, अणीयस्यामपि संयमविराधनायां चारित्रमालिन्याभ्युपगमात्प्रायश्चित्तप्रदानाच्च, तप:श्रुतयोस्तु स्वशक्तिप्रवृत्तावपि चारित्रमालिन्यानभ्युपगमात्प्रायश्चित्ताप्रदानाच्च, तदेतत्कथमिति ? आहाचार्य:-'अनिगृहितो विरिअं' गाहा (१३६-८), अस्याप्ययं भावार्थ:-श्रुततपसोरपि तावच्छक्तिर्न निगूहनीया, ततश्च संयमेऽपि शक्तिं चेन्न निगृहयति तदा न विराधकः साधुः, न ह्यागमे ग्लानाद्यवस्थासु यतनया कुर्वतोऽशठचित्तस्य किञ्चित्सावद्यापि क्रिया नानुज्ञाता भगवद्भिरिति । 'विगति विगईभीओ'गाहा (१४८-८), व्याख्या-विगते तो विगतिभीत: साधुर्यो विकृति-क्षीरादिकां भुङ्क्त इति योग: चशब्दस्यानुक्तस्यापि दर्शनात् विकृतिगतं च क्षीरान्नादिकं यो भुङ्क्ते स दुर्गतिं यातीति वाक्यशेषः, कस्मादित्याह-विकृतिर्बलाज्जीवम निच्छन्तमपि विगति-नरकादिकां नयतीति, एतदपि कुत इत्याह-विकृतियतो विकृतिस्वभावा, 10 विकारजननस्वभावेति गाथार्थः । “एगग्गया य झाणे' गाहा (१५६-८), व्याख्या सूत्रवाचना दानपरिहारेणार्थमेव व्याख्यानयत आचार्यस्यैकाग्रता ध्याने–अर्थचिन्तनलक्षणा भवति, यदि पुनः सूत्रमपि वाचयेत् तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्याद्, एकाग्रतया को गुण इत्याह-'वुड्ढि'त्ति एकाग्रस्य हि चिन्तयतः सूत्रार्थो वृद्धिमुपयातीति भावः तीर्थकरानुकृतिश्च भवति, तीर्थकरा हि किलार्थमेव कथयन्ति न सूत्रं अतस्तदनुकारश्च कृतो भवति, सूत्रवाचनां 15 च प्रयच्छत आचार्यस्य लाघवमपि स्यात् तद्वाचनायास्ततोऽधःपदवर्तमानैः उपाध्यायादिभिरपि साध्यत्वाद्, अतोऽर्थमेव कथयतः सूरेर्गुरुता-गरिमा भवति, आज्ञायां च स्थैर्घ्य, आज्ञा च तीर्थकृतां पालिता भवतीत्यर्थः, तीर्थकरैरित्थमेव निर्दिष्टत्वादिति भावः । 'इति गुरु कयरिणमोक्खो न वाएइ'त्ति (१५६-९), इति-अस्मादुक्तस्वात्कारणकलापाद्गुरुर्न वाचयति सूत्रं, कथम्भूतो ?-यतः कृतऋणमोक्षः, तेन हि सामान्यावस्थायामनेके साधवः सूत्रमध्यापिता ___ एव, अतः प्रागपि कृतसूत्रलक्षणऋणमोक्षत्वेन कृतकृत्यत्वात् पूर्वोक्तकारणकलापाच्च गुरुः सूत्रं न वाचयतीति गाथार्थः । उपाध्यायस्य सूत्रवाचनाप्रदाने को गुणः स्यादित्याह-'सुत्तत्थेसु थिरत्तं'गाहा (१५७-२), व्याख्या-उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति अतः सूत्रेऽर्थे च स्थिरत्वं भवति, अन्यस्य वाचनादानेन च सूत्रलक्षणऋणमोक्षो भवति. आयत्यां-आगामिनि काले अप्रतिबन्धः-सत्रसन्तत्यविच्छेदलक्षणो भवति. 'पाडिच्छत्ति येऽन्यत आगत्य साधवः सूत्रोपसम्पदं गृह्णन्ति ते प्रतीच्छका उच्यन्ते ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः, मोहजयश्च-सूत्रवाचनादानव्यग्रस्य हि चित्तविश्रोतसिका न भवतीत्यर्थः, एतैः कारणैः सूत्रं वाचयत्युपाध्याय इति गाथार्थः । शेषा गाथाः सुगमाः, नवरं'उद्धावणापहावण'त्ति (१५८-२) प्राबल्यधावनं च प्रकर्षधावनं च ते उद्धावनप्रधावने गच्छप्रयोजनापेक्षितया करोति गणावच्छेदक इति, शेषं निगदसिद्धं । 'अभ्युत्थितवन्दन'मिति 30 (१५९-१) अभ्युत्थितवन्दनकं नाम यदेवमेव विनयार्थं गुरुभ्यो दीयते तदेवम्भूत्तमेव वन्दनकं

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418