Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 405
________________ 15 3८२. * मधारी उभयन्द्रसूरत टीप: (भाग-५) ऽतिशयेनाविशुद्धत्वात् संक्लिष्टोऽभिधीयते इति गाथार्थः । असंक्लिष्टस्वरूपमाह-'पासत्थाइएसु'गाहा (८६-४), गतार्था, उक्तोऽसंक्लिष्टः । इदानीं यथाच्छन्दस्वरूपमाह-'उस्सुत्त'गाहा (८६६), उत्सूत्रमाचरन् उत्सूत्रं प्रज्ञापयन्नेष यथाच्छन्द इच्छाच्छन्दश्चेत्येकार्थी शब्दावितिगाथार्थः । उत्सूत्रं किमुच्यते ? इत्याह–'उस्सुत्त'गाहा (८६-७), व्याख्या-उत्सूत्रं किमित्याह यदनुपदिष्टं तीर्थकरगणधरैः स्वच्छन्देन-स्वाभिप्रायेण विकल्पितं-उत्प्रेक्षितं अत एव सिद्धान्ताननुपाति सिद्धान्तबहिर्भूतमित्यर्थः, यथाच्छन्दस्यैव स्वरूपान्तरमाह-परतप्तिप्रवृत्तः, तितिणो नाम यः स्वल्पेऽपि केनचिदपराद्धोऽनवरतं पुनः २ झषन्नेवास्ते एष यथाच्छन्द इति गाथार्थः । यथाच्छन्दस्य पुनः स्वरूपान्तरमाह-'सच्छंद'गाहा (८६-८), स्वच्छन्दा-आगमनिरपेक्षा याऽसौ मतिस्तया किञ्चिदालम्बनमध्ययनादिकं विकल्प्य-उत्प्रेक्ष्य ततः सुखं स्वादयतीति सुखस्वादः स चासौ विकृतिप्रतिबद्धश्च, मिथ्यालम्बनं किञ्चिद्विकल्प्य यः सुखलिप्सुर्विकृतिप्रतिबद्धो भवतीत्यर्थः, तथा त्रिभिर्गौरवैः ऋद्धिरससातलक्षणैर्यो माद्यति तं जानीहि यथाच्छन्दमिति गाथार्थः ॥ अत्र क्वचिदग्रपिण्डभोजित्वादिनाऽल्पदोषेण क्वचित्तु स्त्रीसेवादिना महादोषेणावन्द्यत्वमुक्तमिति तत्त्वं न ज्ञायते अतः किञ्चिद्विशेषज्ञानार्थं कल्पस्य भाष्यं चूर्णिणश्च किञ्चिदुच्यते-"संकिन्नवराहपयोअणाणुतावी य होइ अवरद्धे । उत्तरगुणपडिसेविअ आलंबणवज्जिओ वज्जो ॥१॥" अत्र चूर्णि:-संकिन्नो नाम बहूहिं उत्तरगुणावराहपएहिं, ते य काउं नाणुतप्पइहा दुट्कयं, निस्संको निद्दओ पवत्तइ, आलंबणं-नाणाइ तेहिं वज्जिओ यः स कृतिकर्मे वजनीयः, अर्थादापन्नं आलंबणसहिओ उत्तरगुणे पडिसेवमाणेवि पुज्जो इति शिष्यवचनं, आयरिओ भणति-न केवलं उत्तरगुणपडिसेवी, मूलगुणपडिसेवीवि आलंबणसहिओ पुज्जो । तथा च भाष्यं-हेटुवाणट्ठिओविय पावयणिगणट्ठयाए अहरे ऊ । कडयोगी उ निसेवइ आइनिअंठोव्व सो पुज्जो ॥१॥ अत्र चूर्णि:-"हेतुल्लेहिं संजमठाणेहिं ठिओवि मूलगुणप्रतिषेव्यपीति भावः, कडयोगी नाम जो गीयत्थो पावयणी-आयरिओ गणो–गच्छो एएसिं अट्ठयाए असढयाए अधरे-आत्यन्तिककारणे जं निसेवइ तेणं संजमसेढीए चेव वट्टइ जहा आइनियंठो–पुलागो तस्स लद्धी चक्कवट्टिखंधावारंपि थंमेउं विणासेउं वा कुलाइकज्जेसु आलोइयपडिक्कंतो सुद्धो महानिज्जरो य, यत आह भाष्यकार:-"कुणमाणोवि य कडणं कयकरणो नेव दोसमब्भेइ । अप्पेण बहुं इच्छइ विसुद्धआलंबणो समणो ॥१॥" कडणंति-कटकममपि कुर्वाण: कृतकरणः-पुलाको न दोषमभ्येति, विशुद्धालम्बनोऽल्पेन बह्विच्छति, अपरं चेह भ्रष्टसंयमगुणोऽप्यायोपायकुशलेन कार्यार्थिना वन्दनीयः, अन्यथा दोषप्रसङ्गात्, तथाहि केनचिदाचार्येण गीतार्थाभावे अगीतार्था अपि क्षुल्लकाः प्रत्यन्तपल्ल्यां क्षेत्रप्रत्युपेक्षणार्थं प्रेषिताः, तत्र च भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति, ते च प्रत्युपेक्षितक्षेत्राः साधवस्तं पृच्छन्ति-क्वासौ तिष्ठति, लोकेन च कथितमरण्ये तिष्ठति ततस्तेऽपि तत्र गताः, तमजारक्षण 20 25 30

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418