Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
10
3८० * भलधारी उभयन्द्रसूरत टी415 (भाग-4) भणितोऽवसन्नो देशतः, उपलक्षणं चेदं ततः स्खलितेषु मिथ्यादुष्कृतं न ददाति गुरुवैयावृत्त्यं न करोति संवरणादिषु वन्दनकं न ददाति आदाननिक्षेपादिषु प्रत्युप्रेक्षणप्रमार्जने न करोति, इत्याद्यन्यदपि सामाचारीवितथाचरणं देशपार्श्वस्थत्वकारणं द्रष्टव्यमिति गाथाद्वयार्थः ॥ यदुक्तं 'गुरुवचनं प्रतिवलति' तत्सविशेष विवरीषुराह–'गोणो' गाहा (८४-१), यथा गलि!: स्वामिना प्रेरीतो दुःशीलतया वलन्–व्यावृत्त्य सम्मुखीभूय भनक्ति समिलां सोऽप्यवसन्न एवमेव गुरुवचनमकुर्वन् वलति-सम्मुखीभवतीत्येव चेतदृष्टान्तेन साम्यं, करोति वा तथापि “उस्सोढुं"ति त्वत्समीपे किलाहमेवैकस्तिष्ठामि येन पुनः पुनर्मामेवादिशसीत्याद्यसूयावाक्यमुक्त्वा करोतीत्यभिप्राय इति गाथार्थः ॥ इदानीं कुशीलस्वरूपमाह-'तिविहो' गाहा (८४-३), ज्ञानदर्शनचारित्रविषयत्वेन त्रिविधः कुशीलो भवति, शेषं सुगममिति गाथार्थः । कथं ज्ञानादिविषयत्वेन त्रिविधः कुशीलो भवतीत्याह-'नाणे' गाहा, ज्ञानाचारं-कालादिकं यो विराधयति स ज्ञानेज्ञानविषये कुशील इति शेषः, इदमुक्तं भवति-"काले विणये बहुमाणे उवहाणे तह अनिण्हवणे । वंजणअत्थतदुभए अट्ठविहो नाणमायारो ॥१॥" इत्यमुमष्टविधं ज्ञानाचारं यो विराधयतिन सम्यगनुतिष्ठति स ज्ञानकुशीलः, "निस्संकिअनिक्कंखिअनिव्वित्तिगिच्छाअमूढदिट्ठी अ । उववूहथिरीकरणे वच्छल्लपभावणे अठ्ठ ॥१॥" अमुं पुनरष्टप्रकारं दर्शनाचारं विराधयति स दर्शनेदर्शनविषये कुशीलः, चरणकुशीलः पुनरयं वक्ष्यमाणस्वरूप इति गाथार्थः । 'कोउअ' गाहा (८४-५), कौतुकं भूतिकर्म प्रश्नाप्रश्नं निमित्तं आजीवं कल्ककुरुकालक्षणां विद्यां मन्त्रादींश्च य उपजीवति, सर्वत्र द्वितीया द्रष्टव्या, स एवम्भूतश्चरणकुशीलो ज्ञातव्य इति गाथार्थः, तत्र कौतुकं किम् ? इत्याह–'सोभग्गाइ' गाहा (८४-६), सौभाग्यनिमित्तमपत्यादिनिमित्तं च योषिदादीनां त्रिकचतुष्कचत्वरादिषु स्नानादि यत्क्रियते तत्कौतुकं भणितं तत्कुर्वन्नसौ कुशीलो भवतीति द्रष्टव्यं, एवमुत्तरत्रापि, भूतिकर्मस्वरूपमाह-ज्वरितादीनां तदपगमार्थं भूत्या:-भस्मनोऽभिमन्त्र्य यत्प्रदानं तद् भूतिकर्मेति गाथार्थः । अर्थिजनेन शुभाशुभं पृष्टो दैवज्ञः स्वप्नादिषु तत्परिज्ञानार्थं विद्यादिदेवतां यत्पृच्छति स प्रश्नः, अर्थिजनप्रश्नाद्देवतायाः प्रश्न: प्रश्नाप्रश्न इतिकृत्वा, तत्स्वरूपमाह 'सुविणग' गाहा (८४-७), स्वप्ने विद्यया-विद्यादेवतया कथितं स्वप्नविद्याकथितं, अथवा स्वप्नस्य विद्या स्वप्नविद्या तया कथितं स्वप्नविद्याकथितं आख्याति शुभाशुभं इत्याख्यायिका-देवताविशेषारूपा तया कर्णद्वारे वादितघण्टिकाद्वारेण कथितं, आख्यायिका-देवता हि मन्त्रेणाहूता घण्टिकाद्वारेण शुभाशुभं दैवज्ञस्य कथयति, एतच्च देवताकथितं यदन्येभ्यः शिष्यते-कथ्यते स प्रश्नाप्रश्न तदुपजीवनादपि चरणकुशील इति गाथार्थः । निमित्ताजीवयोः स्वरूपमाह-'तीआइ'गाहा (८४-८) अतीतभविष्यद्वर्त्तमानकालत्रयवर्ति
लाभादिभावकथनं निमित्तं भवति, आजीवः पुनः सप्तविधस्तद्यथा-जातेः कुलस्य च प्रतीतस्य 30 शिल्पस्य-कुम्भकारलोहकारादिसम्बन्धिनः कर्मणः-कृषिकर्मादेः तपस:-अनशनादेः गणस्य

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418