Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
परिशिष्टम् - १ * ३८८ तायाः शिखाकूरलक्षणोऽग्रपिण्डः, एतान्पिण्डान् निष्कारणो नित्यं भुञ्जानो देशपार्श्वस्थ इति गाथार्थः । 'कुलनिस्साए' गाहा (८२-१०) कुलानि-श्राद्धकुलादिनि स्निग्धाहारादिगृद्धस्तन्निश्रया विचरति, आचार्यबालवृद्धग्लानादिनिमित्तं स्थापितानि दानश्रद्धालूनि कुलानि स्थापनाकुलानि कारणमन्तरेणापि तानि प्रविशति, संखण्ड्यन्तेऽस्यां जीवा इति संखडी-विवाहादिका तदवलोकनार्थं कौतुकादिना गच्छति, शरीरं चादर्शादिष्ववलोकते, तथा केनचित्सह मातापित्रादिसम्बन्धघटनलक्षणं 5 संस्तवं करोति, अथवा दानलाभात् पूर्वमुत्तरकालं वा दातुर्गुणस्तुतिलक्षणं संस्तवं करोति एष देशपार्श्वस्थ इति गाथार्थः ॥ अवसन्नलक्षणमाह-'ओसन्नोऽविय'गाहा (८३-२) अवसीदति सामाचार्यामित्यवसन्नः, सोऽपि द्विविध:- सर्वतो देशतश्च, तत्र सर्वतः-"उउबद्धपीढफलगो"त्तिइहैककाष्ठनिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान् दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षसन्ध्यादिषु बन्धापगमं कृत्वा प्रत्युपेक्षणीय इत्याज्ञा, यस्त्वेवं न प्रत्युपेक्षते 10 सोऽत्र बद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारक एव वा य आस्ते स एवमभिधीयते, तथा स्थापितभोजी च सविसन्नो ज्ञातव्य इति गाथार्थः । देशावसन्नमाह–'आवस्सय' गाहा 'आवस्सयाइआई' गाहा, (८३-३), आवश्यकेप्रतिक्रमणादौ स्वाध्याये-वाचनादौ प्रत्युपेक्षणायां-वस्त्रादिसम्बन्धिन्यां ध्याने-शुभमनःप्रवृत्त्यादिताक्षणे भिक्षायां-गोचरचर्यायां भक्तार्थे-भोजने भोजनमण्डल्यामितियावत् आगमने-उपाश्रय- 15 प्रवेशलक्षणे निर्गमने-उपाश्रयबहिर्निर्गमनलक्षणे स्थाने-कायोत्सर्गे निषदने-उपवेशने त्वग्वर्त्तने. शयने इति सर्वत्र सप्तमीनिर्देशो द्रष्टव्यः, ततश्चैतेषु आवश्यकादिषु विषये देशावसन्नो
भवतीतिशेषः, कदा ? इत्याह-"आवस्सयाइआई न करे अहवावि हीणमहियाई"ति, यदैतान्यावश्यकस्वाध्यायादीनि स्थानानि सर्वथा न करोति अथवा हीनाधिकानि करोति तदा देशावसन्नो भवतीत्यर्थः, इदमत्र हृदयं यः प्रतिक्रमणाद्यावश्यकं न करोति हीनाधिकादिदोषदुष्टं 20 वा. करोति स्वाध्यायं न करोति प्रतिषिद्धकालकरणादिदोषदुष्टं वा करोति प्रत्युपेक्षणामपि न करोति दोषदुष्टां वा करोति ध्यानं-शुभं "किं मे कडं किच्चमकिच्चसेसं किं सक्कणिज्जं न समायरामी"त्यादिलक्षणं पूर्वापररात्रकाले न ध्यायति अशुभं वा ध्यायति, आलस्योपहतः सुखलिप्सुभिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटति, अनेषणीयं वा गृह्णाति भक्तार्थं मण्डल्यां न भुङ्क्ते कदाचिद्वा भुङ्क्ते मण्डलीसम्बन्धिसंयोजनादिदोषदुष्टं वा भुङ्क्ते, आगमने 25 नैषधिक्यादिसामाचारी न करोति, निर्गमनेऽप्यावश्यक्यादिसामाचारी न करोति, कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति, निषदनशयनयोः संदंशभूप्रमार्जनादिसामाचारी न करोति सम्यावा न करोति, "गुरुवयण बलाइ तह"त्ति तथा सामाचारीवितथाचरणादिकारणेष्वावश्यकवेलादौ सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि गुरुणा प्रेरितस्तद्वचनं प्रतिवलयति-अभिमुखीभूय आलजालान्यसम्बद्धानि वक्ति न पुनस्तद्वचः सम्यक् प्रतिपद्यते स एष 30

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418