Book Title: Avashyak Niryukti Part 05
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
परिशिष्टम् - १ * ३८७ यथा—न दास्यामि ते, इच्छानुलोमा च भाषा यथा - केनचित्कश्चिदुक्तः - साधुसकाशं गच्छामः, स आह-शोभनमिदमिति, अनभिगृहीता भाषा - अर्थमनभिगृह्य या प्रोच्यते डित्थादिवदिति, भाषा चाभिग्रहे बोद्धव्या - अर्थमभिगृह्य या प्रोच्यते घटादिवदिति, संशयकरणी भाषा अनेकार्थसाधारणाः या प्रोच्यते सैन्धवमित्यादिवदिति, व्याकृता - स्पष्टा प्रकटार्था देवदत्त एष ते भ्रातेत्यादिवदिति, अव्याकृता चैव अस्पष्टा - अप्रकटार्था बालकादीनां थपनिकेत्यादिवदिति गाथाद्वयार्थः । चतुर्विंशतिस्तवः समाप्तः ॥
अधुना वन्दनाध्ययनमारभ्यते
'अच्छंति'त्ति (६९-३), तिष्ठन्ति स्वोपाश्रयेऽपि तावदाचार्य्याः किं मन्यमाना ? इत्याह–मन्ये भागिनेया बहिरपि सूत्रपौरुषीं कुर्वन्तीति, ततः सापि सूत्रपौरुष्युद्धाटितादिना अवसिता, ततश्चिन्तयन्ति — मन्ये अर्थपौरुषीं विधाय समेष्यन्ति, तथापि नायातास्ततोऽतिचिरायितमित्याचार्यास्तत्रैव गताः । पार्श्वस्थादिलक्षणप्रतिपादकगाथा वृत्तिकारेण न विवृताः अतस्तासु यथावैषम्यं किञ्चिद् विव्रियते- 'सो पासत्थो' गाहा (८२ - ८) व्याख्या - सोऽनन्तरोद्दिष्टः पार्श्वस्थो द्विविधः, एतदेवाह सर्वतो देशतश्च तत्र सर्वपक्षे ज्ञानदर्शनचारित्रेभ्यः पार्श्वे-पृथग् यो वर्त्तते स पार्श्वस्थः, अत्र निषीथचूणिः - " सुत्तो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं वा न करेइ, दंसणारेसु न वट्टइ चारित्ते न व़ट्टई अइआरे वा न वज्जेइ, एवं सत्थो अच्छइ पासत्थो" अनेन चूणिग्रन्थेन ज्ञानदर्शनचारित्रेभ्यो येन पार्श्वस्थत्वं भवति तत्क्रमेण दर्शितमिति मन्तव्यमिति गाथार्थः । देशत आह- 'देसंमि उगाहा (८२-९) देशे - देशपक्षे पार्श्वस्थः क इत्याहशय्यातरपिण्डमभ्याहृतपिण्डं नित्यपिण्डं च यो भुङ्क्त इति सम्बन्ध:, 'नीयं च अग्गपिंडं' ति चशब्दस्य व्यवहितः सम्बन्धोऽग्रपिण्डं च भुङ्क्ते, कथम्भूतमित्याह - नित्यं - अनवरतं, एवं शय्यातरपिण्डादिभोजनेऽप्ययं नित्यशब्दो योजनीयः, कथमित्याह - निष्कारणेनैव, सकारणस्तु भुञ्जानो' विशुद्धचारित्र्येवेत्यर्थः इत्यक्षरयोजना, भावार्थस्त्वयं - शय्यया-साधुसमर्पितगृहलक्षणया भवार्णवं तरतीति शय्यातरस्तस्य पिण्डो - वक्ष्यमाणलक्षणस्तं यो नित्यं भुङ्क्ते स देशपार्श्वस्थः, सोपयोगत्वादत्र किञ्चित्प्रासङ्गिकमुच्यते, अथ कोऽयं शय्यातरः १ कदा च शय्यातरो भवति २ कतिविधश्च तत्पिण्डः ३ कदा वाऽशय्यातरो भवति ४ कस्य सम्बन्ध्यसौ वर्जनीयः ५ के च तत्पिण्डग्रहणे दोषाः ६ कदा च तत्पिण्डो गृह्यते ७ क्व च शय्यातरो भवति ८ त्यष्टौ द्वाराणि, तत्राद्यद्वारे - यतिप्रदत्तोपाश्रयप्रभुः तेन यत्कृतप्रमाणतया निर्द्दिष्टो वा शय्यातरः, द्वितीयद्वारे यदा शय्यातरगृहे रात्रौ सुप्त्वा जागरित्वा वा प्राभातिकप्रतिक्रमणं कुर्वन्ति तदाऽसौ शय्यातरः, अथैतच्छय्यायां सकलां रात्रि जागरित्वा प्राभातिकप्रतिक्रमणमन्यत्र कुर्वन्ति तदा मौलः शय्यातरो न भवति, किन्तु यद्गृहे प्रतिक्रमणं कृतं स एव, अथ मूलशय्यायां रात्रौ सुप्त्वाऽन्यत्र प्रातः प्रतिक्रामति तदा मौलोऽन्यश्च द्वावपि शय्यातरौ यदा तु वसतिसंकीर्णता
5
10
15
20
25
30

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418