Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 23
________________ आसप्तशती। तावदिष्टार्थव्यवच्छिन्ना पदावली' इति दण्डिमतेनार्थविशेषविशिष्टशब्दस्यैव काव्यत्वमिति । प्रदीपकृन्मतेन च शब्दमात्रोपादानम् ॥ अकलितशब्दालंकृतिरनुकूला स्खलितपदनिवेशापि । अमिसारिकेव रमयति सूक्तिः सोत्कर्षशृनारा ॥ १७ ॥ अकलितेति। न कलिता शब्दस्यालंकृतिर्यया । अनुप्रासादिशब्दालंकृतिशून्येत्यर्थः । एवं चार्थालंकारादिमत्त्वं व्यज्यते । पक्षेऽकलितः शब्दो ययैतादृश्यलंकृतिभूषणं यस्याः । सशब्दभूषणवत्त्वेऽन्यस्य ज्ञानं भविष्यतीति धियेति भावः। अनुकूला द्रुतं रसप्रत्यायिका । पक्षे नायकचित्तानुकूल्यवती । स्खलितः पददार्चशून्यः । कोमल इति यावत् । पदानां सुप्तिब्वतां निवेशो प्रथनं यस्याः सा । एवं च गौडीरीतियुक्तेति ध्वन्यते । पक्षे स्खलितं स्थानादन्यत्र पतनम् । एवं च संकेतगमनं सत्वरमावेद्यते। पदनिवेशश्वरणविन्यासः । यद्वानुकूलानि स्फुटमर्थप्रतीतिजनकान्यस्खलितानि व्याकरणनिष्पन्नानि । एवं च नेयार्थासाधुत्वशून्यत्वं द्योत्यते । यानि पदानि तत्संनिवेशवती । पक्षेऽनुकूलानि द्रुतं संकेतप्रापकालि स्खलनहीनानि यानि पदानि तद्विन्यासवती । अपिरनास्थायाम् । एवं च गुणदोषाभावयोः संपादने नात्यन्तमाग्रह इति भावः । सोत्कर्षशृङ्गारोत्कर्षशालिशृङ्गाररसवती । पक्षेऽहमस्यायं ममेति रतिपरिपोषवती अमिसारिकेवामिसरणामिसारणान्यतरखतीव । उक्तं च-'या चार्ताभिसरेत्कान्तं सारयेद्वामिसारिका' इति । एवं च प्रेमातिशयो व्यज्यते । सूक्तिः काव्यम् । पक्षे शोभनोकिमती । रमयति । एवं च काव्ये शब्दालंकृतिदोषाभावसत्त्वसंपादनमप्रयोजकम् । अपि तूत्कृष्टशकारसंपादनमेवोचितमिति व्यज्यते । यद्वा शब्दालंकृतिशून्या सदोषपदविन्यासापि सोत्कर्षशृङ्गारा सूक्ती रमयति । शब्दस्य प्राधान्यात्तदलंकारस्यावश्यकत्वेऽपि तदभावे दोषराहित्यस्यावश्यकत्वेऽपि केवलोत्कृष्ट शृङ्गारवत्त्वेनैव चमत्कारातिशयजनकत्वं काव्यस्येति भावः । एवं च शृङ्गारादिरसवत्त्वं काव्येऽवश्यमपेक्षितमिति व्यज्यते। अत एव 'नीरसो हि निबन्धो यः सोऽपशब्दो महाकवेः। स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥' इति ध्वनिकृता रसस्य प्राधान्यमभ्यधायि । एवं च सर्वरसप्रधानीभूतवारवत्त्वमसन्तोत्कृष्टमिति तात्पर्यार्थः ॥ अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् । काव्यममिज्ञसमायां मञ्जीरं केलिवेलायाम् ॥१८॥ अध्वनीति। अध्वनि व्यङ्गयार्थशून्यम् । यत्तु ध्वनिरुत्तमं काव्यं तद्भिनमित्यर्थ

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 284