________________
आसप्तशती।
तावदिष्टार्थव्यवच्छिन्ना पदावली' इति दण्डिमतेनार्थविशेषविशिष्टशब्दस्यैव काव्यत्वमिति । प्रदीपकृन्मतेन च शब्दमात्रोपादानम् ॥
अकलितशब्दालंकृतिरनुकूला स्खलितपदनिवेशापि ।
अमिसारिकेव रमयति सूक्तिः सोत्कर्षशृनारा ॥ १७ ॥ अकलितेति। न कलिता शब्दस्यालंकृतिर्यया । अनुप्रासादिशब्दालंकृतिशून्येत्यर्थः । एवं चार्थालंकारादिमत्त्वं व्यज्यते । पक्षेऽकलितः शब्दो ययैतादृश्यलंकृतिभूषणं यस्याः । सशब्दभूषणवत्त्वेऽन्यस्य ज्ञानं भविष्यतीति धियेति भावः। अनुकूला द्रुतं रसप्रत्यायिका । पक्षे नायकचित्तानुकूल्यवती । स्खलितः पददार्चशून्यः । कोमल इति यावत् । पदानां सुप्तिब्वतां निवेशो प्रथनं यस्याः सा । एवं च गौडीरीतियुक्तेति ध्वन्यते । पक्षे स्खलितं स्थानादन्यत्र पतनम् । एवं च संकेतगमनं सत्वरमावेद्यते। पदनिवेशश्वरणविन्यासः । यद्वानुकूलानि स्फुटमर्थप्रतीतिजनकान्यस्खलितानि व्याकरणनिष्पन्नानि । एवं च नेयार्थासाधुत्वशून्यत्वं द्योत्यते । यानि पदानि तत्संनिवेशवती । पक्षेऽनुकूलानि द्रुतं संकेतप्रापकालि स्खलनहीनानि यानि पदानि तद्विन्यासवती । अपिरनास्थायाम् । एवं च गुणदोषाभावयोः संपादने नात्यन्तमाग्रह इति भावः । सोत्कर्षशृङ्गारोत्कर्षशालिशृङ्गाररसवती । पक्षेऽहमस्यायं ममेति रतिपरिपोषवती अमिसारिकेवामिसरणामिसारणान्यतरखतीव । उक्तं च-'या चार्ताभिसरेत्कान्तं सारयेद्वामिसारिका' इति । एवं च प्रेमातिशयो व्यज्यते । सूक्तिः काव्यम् । पक्षे शोभनोकिमती । रमयति । एवं च काव्ये शब्दालंकृतिदोषाभावसत्त्वसंपादनमप्रयोजकम् । अपि तूत्कृष्टशकारसंपादनमेवोचितमिति व्यज्यते । यद्वा शब्दालंकृतिशून्या सदोषपदविन्यासापि सोत्कर्षशृङ्गारा सूक्ती रमयति । शब्दस्य प्राधान्यात्तदलंकारस्यावश्यकत्वेऽपि तदभावे दोषराहित्यस्यावश्यकत्वेऽपि केवलोत्कृष्ट शृङ्गारवत्त्वेनैव चमत्कारातिशयजनकत्वं काव्यस्येति भावः । एवं च शृङ्गारादिरसवत्त्वं काव्येऽवश्यमपेक्षितमिति व्यज्यते। अत एव 'नीरसो हि निबन्धो यः सोऽपशब्दो महाकवेः। स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥' इति ध्वनिकृता रसस्य प्राधान्यमभ्यधायि । एवं च सर्वरसप्रधानीभूतवारवत्त्वमसन्तोत्कृष्टमिति तात्पर्यार्थः ॥
अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यममिज्ञसमायां मञ्जीरं केलिवेलायाम् ॥१८॥ अध्वनीति। अध्वनि व्यङ्गयार्थशून्यम् । यत्तु ध्वनिरुत्तमं काव्यं तद्भिनमित्यर्थ