________________
काव्यमाला।
इति तन्न । गुणीभूतव्यङ्गयादेरपि हृदयाहादजनकत्वात् । पक्षे शिजितशून्यम् । पदग्रहपरमनुप्रासमात्रार्थ पदग्रहः परमुत्कृष्टो यत्र । पक्षेऽत्यन्तचरणसंलग्नम् । काव्यमभिज्ञसभायाम् । एवं चानभिज्ञसभायां हृदयाद्यानन्दजनकत्वेऽपि न किंचिफलमिति भावः । हृदयं वा न मदयति, श्रवणं वा न मदयति । एवं च श्रोतुरुभयान्यतरदायानन्देन विषयान्तरस्फूर्तिशून्यं न करोतीति भावः । अत्र हृदयं श्रवणं वा न मदयतीत्येतावतैव सिद्धे द्वितीय 'न वा' इत्यस्य न तथा प्रयोजनमाभाति । श्रवणं श्रोतुहृदयं वक्तुर्न मदयति । 'आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इत्याधुकेरिति व्याख्याने वाकारद्वयनद्वययोरानर्थक्यमाभाति । मञ्जीरं क्रीडाकाले न मदनाविर्भाववन्तं करोतीत्यर्थः । काव्यं हृदयं न मदयति मञ्जीरं श्रवणं न मदयतीति व्याख्यायां वाकारद्वयमनर्थकमाभाति । अत्रेदमवधेयम्-व्यङ्गयार्थशून्यं काव्यमेव नास्ति । न च 'अव्यङ्गयं त्ववरं स्मृतम्' इत्युक्त्या व्यङ्गयात्सन्ताभाववत्यपि काव्यत्वमस्तीति वाच्यम् । तदुदाहरणे 'स्वच्छन्द-' इत्यादि पद्ये मन्दाकिनीविषयकरत्याख्यभावादिव्यङ्गयस्य सत्त्वात् । किं बहुना। 'स कोऽपि विषयो नास्ति यत्र व्यङ्ग्यं न भासते । समयादेविशेषस्य ह्यभावे हेतुता मता ॥' अत एव 'प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थितेः। उमे काव्ये तदन्यद्यत्तचित्रमभिधीयते ॥' इति ध्वनिकृता [श्रीमदानन्दवर्धनाचार्येण] अभ्यधायि । यद्वा काव्यं काव्यत्वामिमतम् ॥
आखादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः ।
अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ॥ १९॥ आखादितेति । आखादितः । न तु पीतः । एवं चाधरपानेऽत्यन्ताधरपाने वा कीडङमाधुर्यमुत्पत्स्यत इति न विद्म इति भावः । दयिताधररूपसुधारसो येन तस्यैव । एवं च नान्यस्येति भावः । यद्वा मधुरा एवेति योज्यम् । एवं चामधुराणां व्यवच्छेदः । यद्वाखादितो दयिताधरसुधारसो येन तस्यैव । एवं च नृदेहेन दयिताधरपानं विधाय पश्चाद्देवरूपेणामृतं निपीयेतदुभयाधिकतररसवत्काव्येच्छया कविर्भवतीति भावः । एवं च दयिताधराखादादेर्हेतुत्वप्रतिपादनादवाप्तकार्यस्य कारणेऽनादरवत्काव्याखादवतः सकलविषयाखादमौलिभूतदयिताधररसाखादादावप्य. नादर इति द्योत्यते। एवं च काव्याखादे ब्रह्मरसरूपता द्योत्यते। सूक्तयः काव्यानि । मधुराः । एवं च दयिताधरसुधारसयोरधिकतरत्वस्य काव्यसामान्येऽमि