________________
आर्यासप्तशती।
धानेन तद्विशेषोत्तमकाव्येऽत्यन्तविशेषस्ततो ध्वन्यते । अत्र दृष्टान्तमाह-अनाखादितचूतमुकुलः । मुकुलपदेन रससंमृतत्वं व्यज्यते । कोकिलः कलं मधुरं न वदति । यद्वा सूक्तय उत्तमकाव्यानि ॥
बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम् ।
कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥ ५० ॥ बालेति । लोकव्यवहारज्ञानस्य काव्यहेतुत्वमित्याह-बालायाः कटाक्षेण सूत्रितम् । सूचितमित्यर्थः । एवं च लज्जावत्त्वेन प्राकट्यसंपादनायोग्यत्वम् । अत्र बालापदेनाल्पवयस्कामिधीयते। न खीयामेदरूपा । असतीत्याद्यर्थविरोधात् । सख्या असतीत्वेऽपि नायिकायाः खीयत्वाक्षतिरित्यपि केचित् । असत्या नेत्रत्रिभागेण बहुलनेत्रव्यापारेण कृतभाष्यम् । कृतकिंचित्प्राकट्यम् । दूतीव्याख्यातम् । दूत्या वचनवृत्त्यामिहितम् । भावममिप्रायम् । कविमाणवकाः कवयो माणवका इव । एवं चाज्ञत्वं द्योत्यते।अधीयते। एवं चातितीक्ष्णमतिभिः सूत्रेण ततोऽल्पमतिभिर्व्याख्यानेन यथावबुध्यते ग्रन्थादि तथा तीक्ष्णमतिभिः कैश्चित्कविभिः खल्पव्यवहारज्ञानेन ततोऽल्पमतिभिरधिकतरज्ञानेन काव्यं क्रियत इति व्यवहारज्ञानं न कुत्रापि व्यभिचरतीति ध्वन्यते । यद्वान्यप्रमेयहरणशीलान्कवीन्निन्दति । दूतीव्याख्यातमित्यनेनैतस्मात्पदादयमर्थो बोध्य इति नियमसहायशक्तिविषयमिति व्यज्यते । शक्तेरतिस्थूलमतिविषयत्वात् । असतीनेत्रत्रिभागकृतभाष्यमित्यनेन जघन्यलक्षणावृत्तिविषयमिति द्योत्यते । लक्षणावृत्तेः किंचित्स्थूलमतिविषयत्वात् । बालाकटाक्षसूत्रितमित्यनेन व्यञ्जनावृत्तिविषयमिति व्यज्यते । व्यञ्जनावृत्तेरतिसूक्ष्ममतिविषयत्वात् । भावमर्थम् । अर्थादन्यकविनिबद्धम् । येऽधीयते खकाव्यविषयीकुर्वन्ति न ते कवयः । किं तु तेषु ते बालाः । मूर्खा इत्यर्थः । एवं च परकाव्यस्पृष्टवाच्यलश्यव्यङ्ग्यास्पिर्शित्वं खकाव्यस्य ध्वन्यते । यद्वा बालाकटाक्षसूचनादिव्यापारप्रकटनार्थस्य कविमाणवककाव्यविषयत्वं कवीनां त्वत्यन्तनिगूढार्थोऽपि काव्यविषय इति खग्रन्थेऽपि निगूढार्थविषयत्वं धन्यते । अथवा कवयः सर्वे बालका इव । एवं च बालाकटाक्षसूत्रितमित्यादिना नायिकया खेच्छया प्रकटीकृतभावस्याभिज्ञत्वं कवीनाम्। न तु तदन्तर्गताभिप्रायज्ञानवत्त्वमिति नायिकाधिक्यवर्णनेन तद्विषयशृङ्गारवर्णनं सर्वरसवर्णनापेक्षया कठिनतरमिति व्यज्यते । तद्वत्त्वेन खग्रन्थाधिक्यं च । अत एव 'शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः' इत्यभाणि जयदेवेन ॥