________________
२२ खकीर्त्यनुवृत्तये खनाम दर्शयमेवेतरार्यावैलक्षण्यं खार्याखाह
मसूणपदरीतिगतयः सज्जनहृदयामिसारिकाः सुरसाः ।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥ ५१ ॥ महणेति । मसृणानां स्निग्धानाम् । कोमलानामिति यावत् । पदानां विभक्यन्तानां रीतिदादिस्खस्या गतिः प्राप्तिर्यासु ताः । तद्वत्य इत्यर्थः । पक्षे कोमलचरणविन्यासशालिगतयः । मन्थरगतय इत्यर्थः । सज्जनहृदयमनुसरन्ति । एवं च सहृदयहृदयसमधिगम्यायों इति भावः। एवं च दुहृदयानामत्र नाधिकार इति ध्वन्यते । पक्षे सज्जनस्य हृदयममिसारयन्ति । खाधीनताभाजनं कुर्वन्ति ताः। सुष्छु रसः शारादिर्यासु ताः । पक्षे आसक्तिविशेषवत्यः । मदनाद्वतोपनिषदः । उपनिषद इत्यनेन मदनोद्दीपकतातिशयशालित्वमावेद्यते । पक्षे संनिधिमदनसत्वोक्त्या तस्मिन्नाज्ञाकारित्वं ध्वन्यते । विशदाः प्रसादरूपगुणवत्यः । पक्ष उज्व. लवेषाः । आर्याः । आर्या इति च्छन्दोनाम । पक्षे श्रेष्ठाः । गोवर्धनस्य । गोवर्धन इति कविनाम ॥
वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता।
निम्नानुरूपनीरा कलिन्दकन्येव गगनतलम् ॥ ५२ ॥ वाणीति । वाणी । प्राकृतकाव्ये सम्यगुचितो रसो यस्याः । एतादृश्येव बलेन बलात्कारेण । पक्षे बलरामेण । एवकारोऽत्रैवान्वेति । संस्कृतं नीता। निम्नानुगामिखभावजला कालिन्दी गगनतलमिव । एवं च प्राकृतकाव्ये सुरसतासंपादनं सुगमतरम्, संस्कृतकाव्ये तत्कठिनतरमिति द्योत्यते। तेन खयं तत्संपादनेन खस्मिन्नाधिक्यमावेद्यते । यद्वा वाण्याः खभाव एवायं यत्प्राकृतकाव्ये सरसामामोतीति प्राकृतकाव्यकरणादर एव समुचितः, तथापि संस्कृतकाव्य एवादरो मया विहितस्तत्र कदाचिद्यदि तथाविधसुरसताभावो भविष्यति स च तत्रभवद्धिः क्षन्तव्य इति ध्वन्यते । अथवा प्राकृतकाव्यसमुचितरसा वाणी प्राकृतसमुचित रसैव । प्राकृतानां साधारणजनानां समुचितः । सुखावह इत्यर्थः । रसो यस्याः । अतो बलेन प्राकृतसप्तशत्यादितिरस्कारेण संस्कृतं नीता । यद्वा प्राकृते साधारणजने सम्यगुचितः । अत्यन्त इत्यर्थः । रसः प्रीतिर्यस्याः एतादृश्यपि बलात्कारेण
१. हालापरनाम्ना सातवाहनकविना प्रणीतां प्राकृतगाथासप्तशतीमालोक्येयं सस शती श्रीगोवर्धनाचार्येण प्रणीतेति वाणीसाचार्यया सूचितम्.