________________
आर्यासप्तशती ।
२३
संस्कृतं साधुरूपं प्रापिता । एवं च नीचाभिलाषिण्याः सद्वृत्ततासंपादनं पुरुषा इति भावः । निम्नानुरूपनीरा कलिन्दकन्येव । एवं च विवेकशून्यत्वं ध्वन्यते तेन नीचानुगामि रसशालितायोग्यत्वम् । गगनतलमत्युच्चदेशं नीता । एवं च प्राकृ तसंस्कृतयोर्भूतलगगनतलतुल्यताप्रतिपादनेन प्राकृतात्स्कृतेऽत्यन्ताधिक्यमावेद्यते । आर्यासप्तशतीयं प्रगल्मममसामनादृता येषाम् ।
दूतीरहिता इव ते न कामिनीमनसि निविशन्ते ॥ ५३ ॥
आर्येति । इयमार्याणां सप्तशती येषां प्रगल्भमनसाम् । यैः प्रगल्भमनोभिरि त्यर्थः । एवं चाप्रगल्भमनोभिरादरेऽनादरे वा कृते न किंचित्फलमिति भावः दूतीरहिता इव ते न कामिनीमनसि निविशन्ते । एवं चेतोऽन्यन्न किचिच्चातुर्यजन कमिति व्यज्यते ॥
रतरीतिवीतवसना प्रियेव शुद्धापि वादे सरसा । अरसा सालंकृतिरपि न रोचते शालभञ्जीव ॥ ५४ ॥ रतरीतीति । रतरीतौ वीतं वसनं यस्याः सा । रसाविर्भावादिति भावः एवं चालंकारभ्रंशादेः का वार्तेति भावः । प्रियेव शुद्धापि । अनुप्रासोपमाद्यलंकारर हितापि । वाणी संतोषाय । अत्र हेतुमाह - सरसा शृङ्गारादिमती । पक्षे श्रङ्गाररस वती । रसशून्यालंकृतियुतापि । पक्षे कटककुण्डलयुतापि । शालभञ्जीव प्रतिमेव न रोचते । एवं च रसस्य प्राणरूपत्वं ध्वन्यते । एवं च निरलंकारस्यापि काव्यत्वमिति मिश्ररुचिनाथमतेन । अत एव ताभ्यां 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥' इति निरलंकारोदाहरणमभ्यधायि वस्तुतस्त्वेतदुभयोदाहृतपद्येऽपि सर्वालंकारमौलिमणिरूपातिशयोक्तेर्विद्यमानत्वात् उक्तिवैचित्र्यरूपालंकारविरहे काव्यत्वस्यासंभवात् । 'काव्यं ग्राह्यमलंकारात्' इत्यलं कारस्य काव्यव्यवहारप्रयोजकत्वाभिधानाच्च । रसवति काव्ये स्फुटालंकार राहि त्येऽपि न चमत्कारहानिरिति रसवत्त्वस्याधिक्यप्रतिपादनमात्रे तात्पर्यम् । 'अंक लित-' इत्यादि पये ङ्गारोत्कर्षमात्रस्य प्राधान्यमित्यर्थः । अत्र तु रसमात्रस तदिति भावः
इति श्रीमद्गोदावरीपरिसरालंकृतपुण्यस्तम्भस्थितिविराजमाननीलकण्ठपण्डिततन जबालोपण्डितात्मजतिमाजी पण्डिताङ्गजानन्तपण्डितविरचितगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपने ग्रन्थारम्भोचितव्रज्याव्याख्या समाप्ता ।