________________
काव्यमाला।
अकारव्रज्या । कश्चिद्यौवनभराक्रान्तां प्रपापालिकामालोक्य तां प्रत्याह
अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः ।
दुर्लवयवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥१॥ अवधीति । प्रपा जलदानस्थानं तद्रक्षणकत्रि । एवं च धार्मिकत्वं व्यज्यते । तेन च पथिकजनजाया न हन्तव्येत्युपदेशदानयोग्यत्वम् । जीवनरक्षणका जीवनविनाशकर्तृत्वमनुचितमिति वा व्यज्यते । प्रसीद । एवं च बलात्कारानहत्वं ध्वन्यते । किं प्रसन्नतायाः फलमित्यत आह-स्तनौ पिधेहि । मार्गान्तरेणानेनैव वा मार्गेण झटिति कुतो न गम्यत इत्यत्र हेतुगर्भ विशेषणमाह-दुर्लच्यौ च तौ वर्त्मशैलौ च । एवं च मार्गान्तराभावादुल्लङ्घयितुमशक्यत्वाच्चैतत्पिधानमावश्यकमिति योयते । किं पिधानफलमत आह-अवधिदिनावधि जीवो जीवनं यासां ताः पथिकजनजाया जीवन्तु । एवं च त्वत्कुचकनकमहीधरदर्शनलुब्धैः पथिकैरत्रैव कालाविवाहने कृतेऽवधिदिनातिक्रमे तत्कामिनीजनस्य मरणमेव भविष्यतीति भावः॥ कृतपरिणयान्तरं नायकमसूयमानां नायिकां काचिदुपदिशति
अतिवत्सला सुशीला सेवाचतुरा मनोऽनुकूला च ।
अजनि विनीता गृहिणी सपदि सपत्नीस्तनोद्भेदे ॥२॥ अतीति । गृहिणी प्रथमस्त्री । सपत्नीस्तनप्रादुर्भावे सपदि । एवं च किंचिद्विलम्बे को वेद किं भविष्यतीति भीतिशालित्वं ध्वन्यते । अतिनेहवती। समीचीनखभावा । सेवानिपुणा । नायकमनोगतकारिणी नम्रा च । जाता । एवं च पूर्व सपत्नीसंपादनदुःखवत्तया न्यूननेहम्, सपत्नीतर्जनादिना दुःशीलताम् , इयमेव सेवां करिष्यतीति सेवामौढ्यम् , अत एव मनःप्रातिकूल्यम्, किं करिष्यत्ययमतः परं ममेत्यविनीततामकरोत् । सपत्नीतारुण्योद्गमसमय एवायमस्यामत्यन्तासक्तः स्यादिति भियातिवात्सल्यादीति भावः । एवं च त्वयाप्येवं विधेयमतोऽधुनासूयादिकरणमनर्थकमिति द्योत्यते। यद्वा नायिकाक्लेशशालिनं कंचन कश्चिद्विवाहान्तरकरणमुपदिशति । एवं च सपत्न्यां जातायामियमवश्यमत्सन्तानुकूल्यमाचरिष्यतीति ध्वन्यते । काचिकस्याश्चिद्वृत्तं वकीति ऋजवः ॥