________________
काव्यमान।
अन्तगूढानानन्यञ्जयतः प्रसादरहितस्य ।
संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥११॥ अन्तरिति । अभ्यन्तरं गूढस्थितिम् । पक्षे निलीनान् । अर्थान्प्रतिपाद्यविषमान् । पक्षे पदार्थान् । अव्यजयतो व्यञ्जनाविषयानकुर्वतः । पक्षेप्रकाशयतः । अत एव प्रसादेन काव्यगुणेन । पक्षे निर्मलतया । रहितस्य । संदर्भस्य काव्यस्य । नदस्य च । पुंस्त्वनिर्देशेन निर्मलत्वस्यावश्यापेक्षणीयत्वमित्यावेद्यते । यद्वा नदत्वेन विरलतया तत्तुल्यप्रतिपादनात्काव्येऽतिविरलत्वमावेद्यते । उकं हि [ आनन्दवर्षनेन]-'द्वित्रा एव कवयो द्वित्राण्येव कान्यानि' इति । रसः शुशारादिः । पक्षे जलाम् । रसज्ञानाम् । एवं चान्येषां प्रीत्यजनकत्वेऽपि न काचित्क्षतिरिति भावः । प्रीत्यै न ॥
यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् ।
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥१५॥ यदिति । यदसतां सहृदयमिन्नानाम् । पक्षे पापवताम् । असेवनीयम् । अमृततुल्यम् । पक्षेऽमृतबहुलम् । सुवर्णानां शोभनाक्षराणां विन्यासो प्रथनं यत्र । 'वर्ण तु चाक्षरे' इत्यमरः । पक्षे सुवर्णस्य हेनो विन्यासो रचनादि यत्र । शोभनरसार्थोभयप्रचुरम् । पक्षे देवसमूहबहुलम् । काव्यं त्रिविष्टपं खर्ग वा समं विद्मः । एवं चात्र नान्यथाभाव आशकनीय इति भावः । एवं च खर्गार्थ यथा सद्भिर्यनः क्रियते तथा काव्याथ विधेय इति व्यज्यते ॥
सत्कविरसनाशूीनिस्तुषतरशब्दशालिपाकेन ।
तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ १६ ॥ सदिति । सत्कवेः । एवं चासत्कवेर्निरासः। रसनैव शूर्यल्पं शूर्पम् । प्रस्फोटनं शूर्पमन्त्री' इत्यमरः । यथा खल्पशूर्पण निस्तुषता जायते न तथा महाशूर्पणेति खीसंप्रदायः । तया निस्तुषतरो निर्दोषः शब्दरूपो यः शालिस्तत्पाकेन । परिणतनिर्दोषकान्याखादेनेत्यर्थः । तृप्तो दयितायाः । एवं चातिस्पृहणीयत्वमधरे ध्वन्यते। अधरमप्यत्युत्कृष्टतां व्यञ्जयति । नाद्रियते का सुका दासी। एवं च माध्वीकादेः कुत्र गणनेति भावः । एवं च सुधातोऽधरे, ततोऽपि सत्काव्येऽधिकत्वं ध्वन्यते । एवं च खर्गार्थ यनं विहाय काव्यार्थमेव स विधेय इति ध्वन्यते । अत्र च 'शरीर