________________
आर्यासप्तशती ।
१७
वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि । रसमपि तु न प्रतीच्छति बहुदोषः संनिपातीव ॥ ४१ ॥
वंश इति । वंशे वेणौ घुण इव कीट इव रसभाविते शृङ्गारादिभावनावति । पक्षे जलातिशयसंबन्धवति । औषधीद्रवलेपवतीति कश्चित् । सतां मत्सररहितानां सहृदयानां वा मनसि । मनसीत्येकवचनेन समीचीनमनसामेकव्यसन शालित्वं ध्वन्यते । दोषो न विशति । एवं च सुतरामवस्थित्यभावो द्योत्यते । बहुदोषो दोषैकदृक् । पक्षे 'क्षणे दाहः क्षणे शीतमस्थिसंधिशिरोरुजः' इत्यादिबहूपद्रववान् । संनिपातीव युगपत्प्रकुपितवातपित्तादिमान् । रसमपि शृङ्गारादिकमपि । एवं चावश्येच्छायोग्यत्वं व्यज्यते । पक्षे मृगाङ्कादिकमपि । एवं च का वार्ता क्वाथादेरिति भावः । न प्रतीच्छति न गृह्णातीति किं वक्तव्यमिति भावः ॥
विगुणोऽपि काव्यबन्धः साधूनामाननं गतः खदते । फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥ ४२ ॥
विगुण इति । विगुणोऽपि ये ये काव्ये गुणास्तदन्यतमशून्योऽपि । काव्यबन्धः । अत्र बन्धपदमधिकमाभाति । यद्वा बन्धो रचनामात्रम् । साधूनाम् । एवं च गुणवत्तासंपादनकर्तृत्वं ध्वन्यते । खदते सुखसंपादको भवति । सुवंशः सरलवेणुभिरनूद्यमानः । एवं चानुवादसंपादनेऽपि सुजन दुर्जनयोरन्तरं भवतीति भावः । फूत्कारोऽपि । एवं च सुखाजनकत्वं ध्वन्यते । श्रुतिं हरति श्रवणसुखसंपादको भवति ॥ स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् । तितस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥ ४३ ॥
स्वयमिति । स्वयं भूरिच्छिद्रोऽपि बहुवाच्योऽपि । एवं च खदोषेषु दर्शनयोग्यत्वेऽपि तद्दर्शनाभावेन भ्रान्तत्वमावेद्यते । पक्षे बहुरन्ध्रोऽपि । सर्वतोमुखं सकलजनसमक्षम् । पक्षे सर्वदिग्विषयम् । चापलं मौखर्यम् । एवं च जनभीतिशून्यत्वं ध्वन्यते । पक्षे चाञ्चल्यम् । तन्वन्विस्तारयन् । एवं च विरत्यभावो ध्वन्यते । तितउः । ‘तितउर्ना चालनी स्त्रियाम्' इत्यभिधानम् । पिशुनः परोत्कर्षा - सहिष्णुः । विवेचने निर्णये । पक्षे स्वीकारे । अधिकृतो दत्ताधिकारः । एवं च गुणादिकं विहाय दोषमात्राङ्गीकर्तृत्वं दुष्टानामिति भावः ॥
1
२ आ० स०