Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
(151)
संगर०- हे सखीति गम्यते । तं मदीयं कान्तं पश्य, यः समामशतेषु वर्ण्यते । किं कुर्वन्तं, अतिमत्तानां त्यक्ताङ्कुशानां गजानां कुम्भान् दारयन्तमीत्यर्थः ॥ २२
निय मु०- मुग्धा स्त्री निजमुखकरै निजवदनकिरणैरपि अन्धकारे करं हस्तं प्रतिप्रेक्षते पश्यति । शशिमण्डलचन्द्रिकया पुन रे कथं न पश्यति इत्यर्थः ॥ २३
तुच्छ म० अन्नु जु०- युग्मं । अनयोरर्थः। तुच्छरागेति दूती19 कृतनायकस्यामन्त्रणम् । हे तुच्छराग, तस्या नायिकायाः १० अन्यद् यद् तुच्छं तदाख्यातुं न याति । नायिकायाः ३० किंभूतायाः 31 तुच्छमध्यायाः । पुनः किंभूतायाः, तुच्छजल्पनशीलायाः । पु० (= पुनः किंभूतायाः) तुच्छाच्छरोमावल्लयाः । पु. तुच्छतरहासायाः । पुनः प्रियवचनमलभमानायाः । पु० तुच्छकायमन्मथनिवासायाः तुच्छकायमन्मथनियासो यस्याः सा । तुच्छकायत्वं भर्तृविरहात् । कठरीत्याश्चर्ये । येन कारणेन मुग्धायाः स्तनान्तरं मनोवर्मनि न माति । स्तनयोरतिपीनत्वादतरस्यातितुच्छत्वं वर्णितं इत्यर्थः ॥ २४-२५
फोडेंति०-यौ स्तनौ आत्मीयं हृदयं स्फोटयतः तयोः परकीया घृणा दया किम् । हे लोका, आत्मानं रक्षत, यतः कारणात् बालायाः विषमौ स्तनौ जातावित्यर्थः ॥ २६
भल्ला हु०- हे भगिनि इदं भव्यं भूतं, यन्मदीयः कान्तो मारितः। यदि भमो गृहमष्यत् तर्हि वयस्याभ्यो वयस्यानां वा- सखीभ्यो - लज्जां प्राप्स्यम् ॥ २७
वायस.- वायसमुडापयन्त्या सत्या स्त्रिया सहसेति प्रियो दृष्टः । अर्धानि घलयानि मयां गतानि भूमौ पतितानि । अनि त्रटदिति कृत्वा स्फुटितानि इत्यर्थः ॥ २८
कमल०- अलिकुलानि कमलानि मुक्त्वा करिगण्डानि काङ्क्षन्ति । येषामसुलभ दुर्लभमेष्टुं 'भलि' कदाग्रहो भवति, ते दूर नापि गणयन्तीत्यर्थः ॥ २९ ।
भग्गउं०- हे सखीति गम्यते । हे सखि, यथा द्वितीयादितिथौ शशिरेखा चन्द्ररेखा प्रकटीभवति तथा प्रियस्य करे करवालं खड्गमुन्मील्यते प्रकटीभवति । कि कृत्वा, निजकबलं भमं दृष्ट्वा परस्य बलं प्रसृतं दृष्ट्वेत्यर्थः ॥ ३०
जह त०- हे तिलतार – तिलवत् स्निग्धा तारा कनीनिका यस्य स, तस्य संबोधनम् । यदि तव स्नेहो मया सह नापि त्रुटितः, तत्कस्मादहं त्वया वक्राभ्यां लोचनाभ्यां शतवारं विलोक्ये - इत्यर्थः ॥ ३१ 19 MS दुती. 20 MS नायकाया. 11 MS किंभूतायां. ११ MS भतुविरहात् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229