Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
(159)
कंतु जु०- कान्तो यत् सिंहेन सहोपमीयते तन्मम मानः खण्डितः । सिहो नीरक्षान् रक्षपालरहितान् गजान् हन्ति । प्रियः पदरक्षः पदातिरक्षः समं गजान् हन्तीत्यर्थः ॥ १०४
चंचलु.- जीवितं चञ्चलं, मरणं ध्रुवम् , हे प्रिये रूष्यते कथम् । रोषणस्य दिवसा दिव्यानि वर्षशतानि भविष्यन्तीत्यर्थः ॥ १०५
माणि ५०-- माने प्रणष्टे यदि तनु न त्यज्यते ततो देशस्त्यज्यते । परं दुर्जनकर पल्लवैर्दय॑मानो मा भ्राम्यत् न भ्रमतीत्यर्थः ॥ १०६
लोणु वि०- हे मेघ मा गर्ज । लवणं लावण्यं पानीयेन विलीयते, ज्वालितो मेघो गलति, सकुटीरिका गौरी तिम्यति भीजइ ॥ १०७
विहवि.-- विभवे 16 प्रणष्टे वक्रः, ऋद्धौ जनसामान्यो भवति, सर्वजनतुल्यो भवति । शशी किमपि मम प्रियस्यानुहरति सदृशो भवति मनाक् नान्य इत्यर्थः ॥ १०८
किर खा- किल न खादति, न पिबति, न विद्रवति ददाति, धर्मे रूपक न व्ययति । इह कृपणो न जानाति यथा यमस्य दूतः क्षणेन प्रभवतीत्यर्थः ॥ १०९
जाइज०- तत्र देशे गम्यते यत्र प्रियस्य प्रमाणं लभ्यते । यद्यागच्छति तत आनीयते । अथवा तदेव निवार्ण, स एवान्तः इत्यर्थः ॥ ११०
जउ पव०.- स्त्री कथयति – यत् प्रवसता प्रवासं कुर्वता सता सह न गता, अथ तस्य वियोगेन न मृता । तहि तस्य सुभगजनस्य सन्देशान् ददतीभिरस्माभि लज्यते 71 इत्यर्थः ॥ १११ ।
एत्तहे.- मेघा जलं पिबन्ति, इतो वडवानल आवर्तयति शोषयति । सागरस्य गभीरिमां [sic गभीरिमाणं ] पश्य, एकापि कणिका नहि अपवर्त्तते ऊना न भवतीत्यर्थः ॥ ११२
जाउ म.- स्त्री कथयति । यातु । यान्तं मा पल्लवत प्रतिषेधयत । पश्यामि कति पदानि ददाति । हृदयेऽहमेव तिरश्ची (sic तिरश्चीना)। ( आडी रही छउं ।) पर केवलं प्रियो डंबराणि करोति । न तु यास्यति इति शेषः ॥ ११३
हरि न०- प्राङ्गणे हरिर्तितः , लोको विस्मये पातितः । इदानीं राधापयोधरयो यत् प्रतिभाति तद् 78 भवतु इत्यर्थः ॥ ११४ 48 Ms विहवे. 41 MS लभ्यते.
18 Ms तत्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229