Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 187
________________ (158) तिलहं०- परं केवलं तिलानां तिलत्वं तावत् , यावत् स्नेहा न गलन्ति । स्नेहे प्रणष्टे त एव तिलाः तिला भ्रष्ट्वा खला भवन्ति इत्यर्थः ॥ ९३ . जाम्वहिं० - यावज्जीवानां मध्ये विषमा कार्यगतिः एति तावदास्तामितरजनः खजनोप्यन्तरं ददाति पृष्ठिं ददातीत्यर्थः ॥ ९४ ते मुग्ग.- ये तेषां परिवेषितास्ते मुद्गाः हारिताः मुधा जाताः, येषां परस्परं युध्यतां सतां स्वामी गजितः पीडित इत्यर्थः ॥ ९५ बम्भ ते० - हे ब्रह्मन् ते केपि नरा विरलाः ये सर्वाङ्गर्दक्षाः, ये वक्रास्ते वञ्चकतराः अत्यर्थ वञ्चका: 89 । ये तु ऋजवस्ते बलीवः मूर्खा इत्यर्थः ॥ ९६ अन्ने ते- ते दीर्घ लोचनेऽन्ये एव । अन्यदेव तद्भुजयुगलम् । सोऽन्यो घनस्तनभारः । घनो निबिड: १० । तदन्यदेवमुखकमलम् । अन्य एव स केशकलापः । प्रायः1 स विधिरन्य एव येन सा नितम्बिनी घटिता । किं० (= किम्भूता), सा गुणलावण्यनिधिः इत्यर्थः ॥ ९७ प्राइव०-- प्रायो मुनीनामपि भ्रान्तिः , ते मणीयकान् (sic मणिकान् ?) गणयन्ति । अक्षये निरामये परमपदेऽद्यापि लयं न लभन्ते । किं शून्य' ध्यानेनेत्यर्थः ॥ ९८ अंसु ज०- हे सखि, प्रायो गौर्या अश्रुजलेन नयनसरसी उद्धृत्ते उल्लटिते । ते सन्मुखे संप्रेषिते परं केवलं तिर्यग् ' घातं ददत इत्यर्थः ॥ ९९ एसी पि०-- प्रिय एष्यति समागमिष्यति । अहं रुषिष्यामि । रुष्टां मामनुनयति मनावइ । प्रायो दयिता एतान्मनोरथान् दुष्करान् करोति, इष्टकालेऽनागमनात्, इत्यर्थः ॥ १०० विरहा.- कोऽपि कविर्जले धूमं दृष्ट्वाऽह । कोऽपि पथिको विरहानलज्वालाकरालितः पीडितो बुडित्वा स्थितोऽस्ति । अन्यथा शिशिरकाले शीतलजलाद्धमः कुत उत्थित इत्यर्थः ॥ १०१ महु कं०- गोष्ठस्थितस्य मम कान्तस्य कुतः कुटीरकाणि ज्वलन्ति । अथ रिपुरुधिरेण विध्यापयति, अथात्मीयेन न भ्रान्तिः इत्यर्थः ॥ १०२ पिय सं०- प्रियसंगमे कुतो निद्रा प्रियस्य परोक्षस्य सप्तम्याः षष्ठी । प्रिये परोक्षे सति कथं निद्रा । मया B द्वेऽपि विनाशिते निद्रा न एवं न तथेत्यर्थः ॥ १०३ 80 Ms वंचका. 10 Ms निबड. 11 MS प्राय. 12 MS शुन्य. 18 MS तियग. 14 MS षष्टी . 18 MS ममा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229