________________
(158)
तिलहं०- परं केवलं तिलानां तिलत्वं तावत् , यावत् स्नेहा न गलन्ति । स्नेहे प्रणष्टे त एव तिलाः तिला भ्रष्ट्वा खला भवन्ति इत्यर्थः ॥ ९३ .
जाम्वहिं० - यावज्जीवानां मध्ये विषमा कार्यगतिः एति तावदास्तामितरजनः खजनोप्यन्तरं ददाति पृष्ठिं ददातीत्यर्थः ॥ ९४
ते मुग्ग.- ये तेषां परिवेषितास्ते मुद्गाः हारिताः मुधा जाताः, येषां परस्परं युध्यतां सतां स्वामी गजितः पीडित इत्यर्थः ॥ ९५
बम्भ ते० - हे ब्रह्मन् ते केपि नरा विरलाः ये सर्वाङ्गर्दक्षाः, ये वक्रास्ते वञ्चकतराः अत्यर्थ वञ्चका: 89 । ये तु ऋजवस्ते बलीवः मूर्खा इत्यर्थः ॥ ९६
अन्ने ते- ते दीर्घ लोचनेऽन्ये एव । अन्यदेव तद्भुजयुगलम् । सोऽन्यो घनस्तनभारः । घनो निबिड: १० । तदन्यदेवमुखकमलम् । अन्य एव स केशकलापः । प्रायः1 स विधिरन्य एव येन सा नितम्बिनी घटिता । किं० (= किम्भूता), सा गुणलावण्यनिधिः इत्यर्थः ॥ ९७
प्राइव०-- प्रायो मुनीनामपि भ्रान्तिः , ते मणीयकान् (sic मणिकान् ?) गणयन्ति । अक्षये निरामये परमपदेऽद्यापि लयं न लभन्ते । किं शून्य' ध्यानेनेत्यर्थः ॥ ९८
अंसु ज०- हे सखि, प्रायो गौर्या अश्रुजलेन नयनसरसी उद्धृत्ते उल्लटिते । ते सन्मुखे संप्रेषिते परं केवलं तिर्यग् ' घातं ददत इत्यर्थः ॥ ९९
एसी पि०-- प्रिय एष्यति समागमिष्यति । अहं रुषिष्यामि । रुष्टां मामनुनयति मनावइ । प्रायो दयिता एतान्मनोरथान् दुष्करान् करोति, इष्टकालेऽनागमनात्, इत्यर्थः ॥ १००
विरहा.- कोऽपि कविर्जले धूमं दृष्ट्वाऽह । कोऽपि पथिको विरहानलज्वालाकरालितः पीडितो बुडित्वा स्थितोऽस्ति । अन्यथा शिशिरकाले शीतलजलाद्धमः कुत उत्थित इत्यर्थः ॥ १०१
महु कं०- गोष्ठस्थितस्य मम कान्तस्य कुतः कुटीरकाणि ज्वलन्ति । अथ रिपुरुधिरेण विध्यापयति, अथात्मीयेन न भ्रान्तिः इत्यर्थः ॥ १०२
पिय सं०- प्रियसंगमे कुतो निद्रा प्रियस्य परोक्षस्य सप्तम्याः षष्ठी । प्रिये परोक्षे सति कथं निद्रा । मया B द्वेऽपि विनाशिते निद्रा न एवं न तथेत्यर्थः ॥ १०३ 80 Ms वंचका. 10 Ms निबड. 11 MS प्राय. 12 MS शुन्य. 18 MS तियग. 14 MS षष्टी . 18 MS ममा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org