Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 181
________________ (152) जहिं क०- यस्मिन् शरेण शिर श्छिद्यते, यस्मिन् खड्गेन खड्गः छिद्यते 24, तस्मिन् तादृशे भटघटानिवहे कान्तो मार्ग प्रकाशयतीत्यर्थः ॥ ३२ एकहिं ० अंगिहिं० 95.- युग्मं । अनयोरर्थः । तस्या मुग्धाया एकस्मिन्नक्षिणि १६ श्रावणः अन्यस्मिन्नक्षिणि 98 भाद्रपदः । को भावः, यथा एतौ द्वौ मासौ स्राविणौ ॥ तथाक्षिद्वयमप्यश्रुजलस्रावि त्वान्मासद्वयतुल्यम् । महीतलस्रस्तरे 9 भूतलसंस्तारके माधवो वसन्तः, पल्लवमयत्वात् । गण्डस्थले शरत् तस्याः कुसुमादिना पाण्डत्वात् । जेषु ग्रीष्मः तापबाहुल्यात् । सुखासिकातिलवने मार्गशीर्षः । यथा तिलवनानामुच्छेदः स्यात् तथा सुखावस्थानस्योच्छेदः । मुखपङ्कजे शिशिर आवासितः। यथा शिशिरे पङ्कजानां म्लानत्वं, तथा मुखपङ्कजस्यापि । स्त्रीणां वियोगावस्थायामेतानि चिह्नानि स्युः तेनेत्युक्तम् ॥ ३३-३४ ... हिअडा०-- हे हृदय त्वं त्रटदिति कृत्वा स्फुट, कालक्षेपेन कालविलम्बेन किम् । अहं 30 पश्यामि हतविधिस्त्वया विना दुःखशतानि कुत्र स्थापयति इत्यर्थः ॥ ३५ कंतु म०- हे हले हे सखिके मदीयः 31 कान्तो निश्चयेन यस्य रुष्यति तस्य स्थानं स्फेटयति । कैः, अर्थैः शस्त्रैः हस्तैरपि ॥ ३६ जीविउ.- जीवितं कस्य वल्लभं न स्यात् , धनं पुनः कस्येष्टं न स्यात् । विशिष्टो मनुजोऽवसरे निपतिते द्वे अपि जीवितधने 33 तृणसमे गणयति इत्यर्थः ॥ ३७ एह कु०- एषा कुमारी, एष अहं नरः, एतन्मनोरथस्थानम् । ईदृशं चिन्तयतां 3 8 वढानां मूर्खाणां पश्चाद्विभातं भवति इत्यर्थः ॥ ३८ जइ पु०-- काचित् स्त्री पथिकं प्रत्याह । यदि बृहन्ति गृहाणि पृच्छथ ततो बृहन्ति अमूनि प्रत्यक्षोपलभ्यमानानि वर्तन्ते पृच्छ वा। चेद्दानाभिलाषीति शेषः, तथा कुटीरके विह्वलितजनाभ्युद्धरणं पीडितजनाभ्युद्धरणं कान्तं पश्येत्यर्थः ॥ ३९ आयइं.- लोकस्य इमानि लोचनानि जाति स्मरन्ति न भ्रान्ति ने संदेहः । अप्रिये दृष्टे सति मुकुलन्ति संकोचं प्राप्नुवन्ति । प्रिये दृष्टे सति विकसन्ति इत्यर्थः 54 ॥ ४० सोसउ.- चियेति निश्चयेन उदधिः शुष्यतु मा शुष्यतु वा । तेन समुद्रशोषणेन समुद्राशोषणेन वा वडवानलस्थ किम् । यदिति क्रियाविशेषणम् । यत् जले ज्वलनो 23 MS शिरस्. 24 MS स्छिद्यते. 2 5 MS अंगिहि. 28 MS •क्षि 94 AS श्राविणौ. HIMS श्रावि. 29 MS अस्तरे. 50 MS ऽहं. 31 MS मदीय. 8. MS जीवनधने, BE_MS चिंततां. १ + MS त्यर्थ : Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229