Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
(150)
वच्छहे.--- जनो वृक्षात्फलानि गृहणातिर, कटुपल्लवानि वर्जयति । ततोऽपि महागुमस्तान् कटुपल्लवान् उत्सङ्गे 8 धरति । क इव, स्वजन इव, यथा स्वजनः । कटुपल्लवप्रायानपि जनान् धरति न तु तिरस्करोतीत्यर्थः ॥ ११
दूरुड्डा०-दूरोड्डानेन दूरगमनेन पतितः खलो दुर्जनः आत्मानं जनं च मारयति । यथा गिरिशृङ्गभ्यः पतिता शिला आत्मानमन्यमपि चूर्ण करोतीत्यर्थः॥ १२
जो गुण- य आत्मीयान् गुणान् गोपायति, परस्य गुणान् प्रकटान् करोति । अहं कलियुगे 10 तस्य दुर्लभस्य स्वजनस्य बलि-पूजां क्रिये इत्यर्थः॥ १३
तणहं०- तृणानां तृतीया भङ्गी नापि तृतीयप्रकारो नाप्यस्ति, तेन कारणेन अवटतटे 11 - कूपतटे वसन्ति । अथ यो जनस्तृणानि लगित्वा उत्तरति, अथ इति अथवा तृणानि जनेन सह स्वयं मजन्ति । अन्योऽपि यः प्रकारद्वयं कर्तुकामो भवति स विषमस्थाने वसति । प्रकारद्वयं किं म्रियते वा शत्रून् जयति वेति भावार्थः ॥ १४
दइवु.- देवो वने तरूणां पक्कफलानि शकुनीनां पक्षिणा घटयति, सत् सौख्यं वरम् । कर्णयोः प्रविष्टानि खलवचनानि सौख्यं नेत्यर्थः ॥ १५
धवलु०- धवलो वृषभः धौरेयो विषीदति विषादं करोति इत्यर्थः । किं कृत्वा । स्वामिनो गुरुं भारं प्रेक्ष्य । किं मनसि अचिन्तयत् तदाह । अहं किं न 12 योजितः । क्व, द्वयोर्दिशोः 13 । किं कृत्वा, खण्डौ कृत्वा – इत्यर्थः ॥ १६
गिरिहे. 14- निःसामान्यः सर्वोऽपि जनो गृहं मुक्त्वा गिरेः शिलातलं गृह्णाति, तरोः फलं गृह्णाति । ततोऽपि मनुष्येभ्यः 18 अरण्यं न रोचते इत्यर्थः ॥ १७ - तरहुं०- मुनयोऽपि तरुभ्योऽपि वल्कलं परिधानं फलमशनं च कमेण लभन्ते। स्वामिभ्यः इदमार्गलमधिकं, यद् भृत्या आदरं गृह्णन्ति इत्यर्थः ॥ १८
अग्गिएं0 16.- अमिना जगदुष्णं भवति, तथा वातेन शीतलं भवति । यः पुनः अमिनापि शीतलस्तस्योष्णत्वं कथं, न कथमपीत्यर्थः ॥ १९
विप्पिअ०- हे आर्ये, हे सखि, विप्रियकारको अप्रियकारको यद्यपि प्रियः ततोऽपि तं आनय । अमिना दग्धं यद्यपि गृहं ततोऽपि तेनाग्निना सह कार्य भवेत् ॥ २०
जिम्व जि.-- यथा यथा श्यामला 17 स्त्री लोचनानां निश्चितं वक्रत्वं शिक्षते 18 तथा तथा मन्मथो निजकशरान् खरप्रस्तरे कठोरपाषाणे तीक्ष्णान् करोतीत्यर्थः ॥ २१ T_MS गृह्णाति. 8 MS उच्छंगे. 9 MS स्वजना. 10 MS कुलयुगे, 11 MS अवतटे. 12 MS तु. 18 MS दशोः . 14 MS गिरेहि. 15 MS मनुषेभ्यः. 16 MS अग्गिए. 17 MS श्यामली, 18 MS शिक्षिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229