Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 178
________________ परि शि ष्ट म् । दोधकवृत्तिः श्रीगौतमाय नमः ॥ ढोला सा.- नायकः श्यामल: , 'धण' नायिका प्रिया चकवर्णी । 'नाइं' उत्प्रेक्षते - 'सुवर्णरेखा कषपट्टके दत्ता' इत्यर्थः ॥ १ 1 ढोल्ला म०- हे नायक, त्वं मया वारितः । दीर्घ मानं मा कुरु । निद्रया गमिष्यति रात्रिः अवस्कंदो विभातं शीघ्रं भवति ॥ २ . - बिट्टिए- हे पुत्रिके, मया त्वं भणिता । मा कुरु वक्रां दृष्टिम् । हे पुत्रिके, सकर्णा भल्लियथा मारयति हृदये प्रविष्टा ॥ ३ एइ ति०- एते ते घोटकाः । एषा सा स्थली । एते ते निशिताः खङ्गाः । अत्र मनुष्यत्वं ज्ञायते यो नापि वल्गां वालयति ॥ ४ दहमु०--- दशमुखः भुवनभयंकरः । तोषितशङ्करः - पूजितशङ्करः । निर्गतो रथवरे चटितः । उत्प्रेक्षते - · देवेन चतुर्मुखं ब्रह्माणं षण्मुखं कार्तिकेयं ध्यात्वा एकस्मिन् रावणे लगित्वा' । कोऽर्थः - एतद्वयमपि एकीकृत्य रावणो घटितो निर्मितः, दशमुखत्वादित्यर्थः ॥ ५ अगलि.- अगलितस्नेहाः ५ निवृत्ताः चलिताः । तेषामुपरि योजनलक्षमपि यातु । वर्षशतेनापि यो मिलति । सखि स सौख्यानां 3 स्थानं तेषामित्यर्थः ॥ ६ अंगहिं०- अङ्गैरङ्ग न मिलितं 4, हे सखि, अधरेण अधरो न प्राप्तः । प्रियस्य मुखकमलं पश्यन्त्या एवमेव सुरतं संप्राप्तम् (sic? समाप्तम् ) ॥ ७ ये महु०- ये मम दत्ताः दिवसा: दयितेन प्रवसता चलता सता, तान्दिवसान् गणयन्त्या ममाङ्गुल्यो जर्जरिता नखेन ॥ ८ सायरु०- सागरः उपरि तृणानि धरति, तले क्षिपति रत्नानि । स्वामी सुभृत्यमपि परिहरति, सन्मानयति खलान् - दुर्जनान् ॥ ९ गुणेहिं० - गुणै न संपदः परं कीर्तिश्च । जीवाः फलानि लिखितानि भुञ्जते। दृष्टान्तयति - केसरी कपर्दिकामपि न लभते, गजारतु लक्ष गृह्यन्ते ॥ १० 1 Emended; MS takes vss 1 & 2 together and number them as I. 2 MS स्नेहा. 3 MS सुख्यानां 4. MS मिलतं. 5 MS क्षपति , MS केशरी. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229