________________
परि शि ष्ट म् ।
दोधकवृत्तिः
श्रीगौतमाय नमः ॥ ढोला सा.- नायकः श्यामल: , 'धण' नायिका प्रिया चकवर्णी । 'नाइं' उत्प्रेक्षते - 'सुवर्णरेखा कषपट्टके दत्ता' इत्यर्थः ॥ १ 1
ढोल्ला म०- हे नायक, त्वं मया वारितः । दीर्घ मानं मा कुरु । निद्रया गमिष्यति रात्रिः अवस्कंदो विभातं शीघ्रं भवति ॥ २ . - बिट्टिए- हे पुत्रिके, मया त्वं भणिता । मा कुरु वक्रां दृष्टिम् । हे पुत्रिके, सकर्णा भल्लियथा मारयति हृदये प्रविष्टा ॥ ३
एइ ति०- एते ते घोटकाः । एषा सा स्थली । एते ते निशिताः खङ्गाः । अत्र मनुष्यत्वं ज्ञायते यो नापि वल्गां वालयति ॥ ४
दहमु०--- दशमुखः भुवनभयंकरः । तोषितशङ्करः - पूजितशङ्करः । निर्गतो रथवरे चटितः । उत्प्रेक्षते - · देवेन चतुर्मुखं ब्रह्माणं षण्मुखं कार्तिकेयं ध्यात्वा एकस्मिन् रावणे लगित्वा' । कोऽर्थः - एतद्वयमपि एकीकृत्य रावणो घटितो निर्मितः, दशमुखत्वादित्यर्थः ॥ ५
अगलि.- अगलितस्नेहाः ५ निवृत्ताः चलिताः । तेषामुपरि योजनलक्षमपि यातु । वर्षशतेनापि यो मिलति । सखि स सौख्यानां 3 स्थानं तेषामित्यर्थः ॥ ६
अंगहिं०- अङ्गैरङ्ग न मिलितं 4, हे सखि, अधरेण अधरो न प्राप्तः । प्रियस्य मुखकमलं पश्यन्त्या एवमेव सुरतं संप्राप्तम् (sic? समाप्तम् ) ॥ ७
ये महु०- ये मम दत्ताः दिवसा: दयितेन प्रवसता चलता सता, तान्दिवसान् गणयन्त्या ममाङ्गुल्यो जर्जरिता नखेन ॥ ८
सायरु०- सागरः उपरि तृणानि धरति, तले क्षिपति रत्नानि । स्वामी सुभृत्यमपि परिहरति, सन्मानयति खलान् - दुर्जनान् ॥ ९
गुणेहिं० - गुणै न संपदः परं कीर्तिश्च । जीवाः फलानि लिखितानि भुञ्जते। दृष्टान्तयति - केसरी कपर्दिकामपि न लभते, गजारतु लक्ष गृह्यन्ते ॥ १० 1 Emended; MS takes vss 1 & 2 together and number them as I. 2 MS स्नेहा. 3 MS सुख्यानां 4. MS मिलतं. 5 MS क्षपति , MS केशरी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org