Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
(153)
ज्वलति, अनेन जलज्वलनेन तस्य वडवानलस्य किं न पर्यात, किं न सृतमित्यर्थः ॥ ४१
आयहो०- अस्य दग्धकलेवरस्य यद्वाहितं तदेव सारम् । मरणानन्तरमिति शेषः। यदि आच्छाद्यते स्थाप्यते ततः कुथ्यति, अथ दह्यते ततः क्षारो भस्म स्यादित्यर्थः ॥ ४२
- साहु वि०- सर्वो लोक उत्ताम्यति आकुलीभवति । किमर्थ, बृहत्त्वस्यार्थे । पर बृहत्त्वं हस्तेन मुत्कुलेन प्राप्यते । को भावः, जनैः महत्त्वं तदा प्राप्यते चेद्दानादिगुणाः 3 5 स्युरिति भावः ॥ ४३
जइ सु०-- हे दूति स यदि गृहं नावति नागच्छति तर्हि तव अधोमुखं कथम् । हे सखिके यस्तव वचनं खण्डयति स मम प्रियो न भवतीत्यर्थः ॥ ४४
काई न.- पूर्ववत् ॥
सुपुरि०- सुपुरुषाः कङ्गोः धान्यस्य अनुहरन्ते सदृशा भवन्ति, भण कथय केन कार्येण । उच्यते, यथा यथा वृद्धत्वं लभन्ते तथा तथा शिरसा नमन्तीत्यर्थः ॥ ४५
जइ स०- कस्याश्चित् देशान्तरं भर्ता गतोऽस्ति, स मेघं प्रत्याह । सा स्त्री यदि सस्नेहा भविष्यति तदा मृता भविष्यति, मम विरहात् । अथ जीवति, तर्हि निःस्नेहा 36 । द्वाभ्यां सस्नेह निःस्नेह : ' लक्षणाभ्यां प्रिया गतिका गता । तहि हे खलमेघ - हे दुर्जन : मेघ, त्वं किं गर्जसे इत्यर्थः ॥ ४६ ।
__ भमर ०- हे भ्रमर, त्वमरण्ये मा रुणझुणु शब्दं मा कुरु, तां दिशं विलोक्य मा रुदिहि । पुनः सा मालती देशान्तरिता यस्या वियोगे त्वं म्रियसे इत्यर्थः ॥ ४७
पई मु०- गाथा । त्वया मुक्तानामपि पत्राणां पत्रत्वं न स्फिटति । तव पुन- छाया यदि भवेत् ततसहि तैः पत्ररेव नान्यथेत्यर्थः ॥ ४८
महु हि०-- काचित् नायिकाऽन्यासक्तं पति वक्ति । मम हृदयंग गृहीतमिति शेषः । तया त्वं गृहीतः 39 । सापि अन्येनापि नट्यते । हे प्रियाऽहं किं करोमि, त्वं किं करोषि, मत्स्येन मत्स्यो गिल्यते इत्यर्थः ॥ ४९
पई म०- त्वयि मयि द्वयोरपि रणगतयोः को जयश्रियं तर्कयति-अमिलषति । को यमगृहिणीं केशैगृहीत्वा सुखं यथा स्यात्तथा तिष्ठति, वं भग - कश्येत्यर्थः ॥ ५०
पई मे०- स्त्री कथयति त्वां मुश्चन्त्या मम मरणं, मां मुञ्चास्तव मरणम् । दृष्टान्तः - यथा सारसः पक्षी यस्य यो दूरे स कृतान्तस्य साध्यो भवति, मरणं प्राप्नोतीत्यर्थः ॥ ५॥
.
35 MS गुणा. 56 Ms निस्नेहा 3 T iMs निस्नेह. 38 Ms दुर्जन. 9 MS गृहितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229