________________
(152)
जहिं क०- यस्मिन् शरेण शिर श्छिद्यते, यस्मिन् खड्गेन खड्गः छिद्यते 24, तस्मिन् तादृशे भटघटानिवहे कान्तो मार्ग प्रकाशयतीत्यर्थः ॥ ३२
एकहिं ० अंगिहिं० 95.- युग्मं । अनयोरर्थः । तस्या मुग्धाया एकस्मिन्नक्षिणि १६ श्रावणः अन्यस्मिन्नक्षिणि 98 भाद्रपदः । को भावः, यथा एतौ द्वौ मासौ स्राविणौ ॥ तथाक्षिद्वयमप्यश्रुजलस्रावि त्वान्मासद्वयतुल्यम् । महीतलस्रस्तरे 9 भूतलसंस्तारके माधवो वसन्तः, पल्लवमयत्वात् । गण्डस्थले शरत् तस्याः कुसुमादिना पाण्डत्वात् ।
जेषु ग्रीष्मः तापबाहुल्यात् । सुखासिकातिलवने मार्गशीर्षः । यथा तिलवनानामुच्छेदः स्यात् तथा सुखावस्थानस्योच्छेदः । मुखपङ्कजे शिशिर आवासितः। यथा शिशिरे पङ्कजानां म्लानत्वं, तथा मुखपङ्कजस्यापि । स्त्रीणां वियोगावस्थायामेतानि चिह्नानि स्युः तेनेत्युक्तम् ॥ ३३-३४ ... हिअडा०-- हे हृदय त्वं त्रटदिति कृत्वा स्फुट, कालक्षेपेन कालविलम्बेन किम् । अहं 30 पश्यामि हतविधिस्त्वया विना दुःखशतानि कुत्र स्थापयति इत्यर्थः ॥ ३५
कंतु म०- हे हले हे सखिके मदीयः 31 कान्तो निश्चयेन यस्य रुष्यति तस्य स्थानं स्फेटयति । कैः, अर्थैः शस्त्रैः हस्तैरपि ॥ ३६
जीविउ.- जीवितं कस्य वल्लभं न स्यात् , धनं पुनः कस्येष्टं न स्यात् । विशिष्टो मनुजोऽवसरे निपतिते द्वे अपि जीवितधने 33 तृणसमे गणयति इत्यर्थः ॥ ३७
एह कु०- एषा कुमारी, एष अहं नरः, एतन्मनोरथस्थानम् । ईदृशं चिन्तयतां 3 8 वढानां मूर्खाणां पश्चाद्विभातं भवति इत्यर्थः ॥ ३८
जइ पु०-- काचित् स्त्री पथिकं प्रत्याह । यदि बृहन्ति गृहाणि पृच्छथ ततो बृहन्ति अमूनि प्रत्यक्षोपलभ्यमानानि वर्तन्ते पृच्छ वा। चेद्दानाभिलाषीति शेषः, तथा कुटीरके विह्वलितजनाभ्युद्धरणं पीडितजनाभ्युद्धरणं कान्तं पश्येत्यर्थः ॥ ३९
आयइं.- लोकस्य इमानि लोचनानि जाति स्मरन्ति न भ्रान्ति ने संदेहः । अप्रिये दृष्टे सति मुकुलन्ति संकोचं प्राप्नुवन्ति । प्रिये दृष्टे सति विकसन्ति इत्यर्थः 54 ॥ ४०
सोसउ.- चियेति निश्चयेन उदधिः शुष्यतु मा शुष्यतु वा । तेन समुद्रशोषणेन समुद्राशोषणेन वा वडवानलस्थ किम् । यदिति क्रियाविशेषणम् । यत् जले ज्वलनो 23 MS शिरस्. 24 MS स्छिद्यते. 2 5 MS अंगिहि. 28 MS •क्षि 94 AS श्राविणौ. HIMS श्रावि. 29 MS अस्तरे. 50 MS ऽहं. 31 MS मदीय. 8. MS जीवनधने, BE_MS चिंततां. १ + MS त्यर्थ :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org