SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (151) संगर०- हे सखीति गम्यते । तं मदीयं कान्तं पश्य, यः समामशतेषु वर्ण्यते । किं कुर्वन्तं, अतिमत्तानां त्यक्ताङ्कुशानां गजानां कुम्भान् दारयन्तमीत्यर्थः ॥ २२ निय मु०- मुग्धा स्त्री निजमुखकरै निजवदनकिरणैरपि अन्धकारे करं हस्तं प्रतिप्रेक्षते पश्यति । शशिमण्डलचन्द्रिकया पुन रे कथं न पश्यति इत्यर्थः ॥ २३ तुच्छ म० अन्नु जु०- युग्मं । अनयोरर्थः। तुच्छरागेति दूती19 कृतनायकस्यामन्त्रणम् । हे तुच्छराग, तस्या नायिकायाः १० अन्यद् यद् तुच्छं तदाख्यातुं न याति । नायिकायाः ३० किंभूतायाः 31 तुच्छमध्यायाः । पुनः किंभूतायाः, तुच्छजल्पनशीलायाः । पु० (= पुनः किंभूतायाः) तुच्छाच्छरोमावल्लयाः । पु. तुच्छतरहासायाः । पुनः प्रियवचनमलभमानायाः । पु० तुच्छकायमन्मथनिवासायाः तुच्छकायमन्मथनियासो यस्याः सा । तुच्छकायत्वं भर्तृविरहात् । कठरीत्याश्चर्ये । येन कारणेन मुग्धायाः स्तनान्तरं मनोवर्मनि न माति । स्तनयोरतिपीनत्वादतरस्यातितुच्छत्वं वर्णितं इत्यर्थः ॥ २४-२५ फोडेंति०-यौ स्तनौ आत्मीयं हृदयं स्फोटयतः तयोः परकीया घृणा दया किम् । हे लोका, आत्मानं रक्षत, यतः कारणात् बालायाः विषमौ स्तनौ जातावित्यर्थः ॥ २६ भल्ला हु०- हे भगिनि इदं भव्यं भूतं, यन्मदीयः कान्तो मारितः। यदि भमो गृहमष्यत् तर्हि वयस्याभ्यो वयस्यानां वा- सखीभ्यो - लज्जां प्राप्स्यम् ॥ २७ वायस.- वायसमुडापयन्त्या सत्या स्त्रिया सहसेति प्रियो दृष्टः । अर्धानि घलयानि मयां गतानि भूमौ पतितानि । अनि त्रटदिति कृत्वा स्फुटितानि इत्यर्थः ॥ २८ कमल०- अलिकुलानि कमलानि मुक्त्वा करिगण्डानि काङ्क्षन्ति । येषामसुलभ दुर्लभमेष्टुं 'भलि' कदाग्रहो भवति, ते दूर नापि गणयन्तीत्यर्थः ॥ २९ । भग्गउं०- हे सखीति गम्यते । हे सखि, यथा द्वितीयादितिथौ शशिरेखा चन्द्ररेखा प्रकटीभवति तथा प्रियस्य करे करवालं खड्गमुन्मील्यते प्रकटीभवति । कि कृत्वा, निजकबलं भमं दृष्ट्वा परस्य बलं प्रसृतं दृष्ट्वेत्यर्थः ॥ ३० जह त०- हे तिलतार – तिलवत् स्निग्धा तारा कनीनिका यस्य स, तस्य संबोधनम् । यदि तव स्नेहो मया सह नापि त्रुटितः, तत्कस्मादहं त्वया वक्राभ्यां लोचनाभ्यां शतवारं विलोक्ये - इत्यर्थः ॥ ३१ 19 MS दुती. 20 MS नायकाया. 11 MS किंभूतायां. ११ MS भतुविरहात् . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy