Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
गुरुत्वम्
ततो देव-गुरून् संस्मृत्य देवतां चानुज्ञाप्य स्थिताः । तत्र देवता च तेषां ज्ञानेन [ध्यानेन] सद[नुष्ठानेन] तुष्टा सती दुष्टप्रयुक्तं तान् प्रत्ययुक्तं दत्तावधाना रक्षति । ते च श्रीजिनवल्लभगणिवाचनाचार्याः समस्तविद्यानिधानभूताः । कथम् ?
___ तथाहि-सर्वसिद्धान्तवेदिनः सूत्रतोऽर्थतश्च कण्ठस्थपाणिन्याद्यष्टविद्यावैशारद्यम् यम् व्याकरणा मेघदूतादिमहाकाव्यादिसर्वकाव्या रुद्रटोद्भट-दण्डि
वामन-भामहाचलङ्कार-चतुरशीतिनाटक-समग्रज्योतिषशास्त्रजयदेवादिनिःशेषच्छन्दोग्रन्थ-जिनेन्द्रमतव्यवस्थापकाभयदेवानेकान्तजयपताकादितककन्दली-किरणावली-न्याय-शङ्करनन्दन-कमलशीलादिपरसमयतनिष्णाता अतस्तत्सौरभेण श्रीचित्रकूटे प्रकर्षेण विख्याताः सञ्जाताः । सर्वे परदर्शनिकविप्रादिलोका आगन्तुं प्रवृत्ताः । यस्य यस्य यद्यच्छास्त्रविषयः संशयः समुत्पद्यते स सर्वोऽपि जनस्तं तं पृच्छति । श्रीजिनवल्लभगणयोऽपि भास्करकरा इव विसृत्वराः समस्तमपि संशयान्धकारमुच्छेदयन्ति । श्रावका अपि स्तोकस्तोकेन च समागच्छन्ति । ततः सिद्धान्तवचनानि श्रुत्वा तदनुसारेण क्रियामपि दृष्ट्वा साधारण-सहक-सुमातिपलहक-वीरक-मानदेव-धन्धक-सोमिलक-वीरदेवादिभिः श्रावकैः समाधिना श्रीजिनवल्लभगणिवाचनाचार्या गुरुत्वेन प्रतिपेदिरे ।
श्रीजिनवल्लभगणीशानां गुरूपदेशेनातीतानागतादिज्ञानं ज्योतिषपरिज्ञानं चातिशयितमासीत् । भगवदन्तिके साधारणश्राद्धः परिग्रहप्रमाणं ग्रहीतुं प्रवृत्तः,
गणिमित्रैरुक्तः ... कियन्मानं सर्वसंग्रहे करिष्यसि ? ' साधा" रण:-'भगवन् ! सृतं विंशत्या सहस्रर्मे'। विमलज्ञानदृष्टयः श्रीजिनवल्लभगुरवः-'श्रावक ! बहुतरं कुरु ' । ततः कृतानि त्रिंशत् सहस्राणि । पुनः [ पूज्याः] ज्ञानेन 'महानुभाव ! इतोऽपि प्रभूततरं परिभावय'। साधारण:प्रभो ! मदीयसमस्तगृहसारमूल्यगणनेऽपि पञ्च शतानि न पूर्यन्ते, कौतस्कुती ममाभ्यधिकतरद्रव्यसम्प्राप्तिः । पुनढुकृत्य प्रभवः-सर्वसाधारण साधारण! धार्मिकश्रावक ! किमसाध्यं पुण्यसम्भारस्य ? मा कुरु गणनातुलाम् , चणकमात्रविक्रयिणोऽपि पुरुषाः सङ्ख्याविपक्षलक्षपतयो भवन्ति' इति साभिप्रायं गुरुवचनमाकर्ण्य · निश्चितं किञ्चित काञ्चनसम्प्राप्त्यादिकं भद्रं मम भविष्यतीति विचिन्त्येषद् विहस्य च साधारणेनोक्तम्' यद्येवं तर्हि भगवन् ! भवतु सर्वपरिग्रहे ममैकं लक्षमिति' । तथावितीर्णगृहीतपरिग्रहप्रमाणः सन् सद्गुरुपदोपास्यपहस्तिताप्रशस्तान्तरायकर्मा दिने दिने प्रवर्धमानः सम्पदा
अनागतज्ञानम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248