Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 49
________________ शीघ्रं समागन्तव्यम् , येन श्रीजिनवल्लभसूरिपंदप्रतिष्ठायामपि नागतोऽभूः । बहवश्वे तत्पदे स्थातुं लम्बकर्णा गौरवर्णाः श्रीपर्णपर्णाक्षाः साक्षादिव मकरध्वजा गूर्जरत्रासाताः संयता अभ्युद्यता आसन् , परं योग्यता गुरव एव विदन्ति किं बहुना ? । देवभद्राचार्याः पण्डितसोमचन्द्रोऽन्येऽपि साधवश्चित्रकूटे समाजग्मुः । सर्वोऽपि लोको वेत्ति सामान्येन श्रीजिनवल्लभसूरिपदे सूरिपदस्थापनं भविष्यति, न ज्ञायते कश्चिदुपवेक्ष्यति । श्रीजिनवल्लभसूरिप्रतिष्ठिते साधारणसाधुकारिते श्रीमहावीरचैत्ये पदस्थापन भविष्यति । ततः स्वपरिभावितलग्नदिनादर्वाग्दिने श्रीदेवभद्राचार्यै रेकान्ते भणित: पण्डितसोमचन्द्रगणिर्यदुतास्मिन् दिने युष्मदीयं पदस्थापनालग्नं परिभावितमस्ति । पं० सोमचन्द्रेणोक्तम्- युष्माकं संग(म)तं तद् युक्तम्, परं यद्यस्मिल्लग्ने स्थापयिष्यथ तदा न चिराय जीवितं भविष्यति । षण्णां दिनानामुपरि शनैश्चरवा[स]रे यल्लग्नं भविष्यति तत्रोपविष्टानां त्वस्माकं चतुर्दिक्षु विहरतां चतुर्विधः श्रीश्रमणसङ्घः श्रीजिनवल्लभसूरिवचने प्रभूतो भविष्यति चिरञ्जीवित्वं चे' । श्रीदेवभद्राचार्यैरुक्तम् 'एतदेव वयमपि गवेषयामहे, तदपि लग्नं न दूरे, तत्रैव भवतु' । ततस्तस्मिन्नेव दिने श्रीजिनवल्लभसूरि पदे विस्तरेण सन्ध्यासमये लग्नवेलायां संस्थापिताः श्रीजिनदत्तमूरिनामानो युगप्रवरास्ततो वादित्रैर्वाद्यमानैः समागता वसतौ । प्रतिक्रमणानन्तरं वन्दनकं दत्त्वा श्रीदेवभद्रसूरिभिर्भणितम्-'देशनां कुरुत' । ततः सिद्धान्तोक्तोदाहरणानुसारिहारिसुधासारणिकरणिगीर्वाणवाणीप्रबन्धेन तथा कृता पूज्यैः श्रीजिनदत्तसूरिभिर्देशना यथा 'ह्रस्वशरीरः श्यामवर्णोऽयं किमित्युप[वेश्यते ? किं न सन्त्यन्ये गौरवर्णा लम्बकर्णा विशाललोचना गच्छमध्ये साधवः ?' इत्यादि कालुध्यमपहाय सर्वा प्रजा रजिता सती भणति-'अहो ! सिंहा]नां पदे सिंह एवोपविष्टो विराजते । धन्याः श्रीदेवभद्राचार्या यैरीदृशं पात्ररत्नं परीक्षितम्, किमस्मादृशाः स्थूलमतयोऽन्तर्लक्षणानि जानन्ति ? '। सूरिः प्रसन्नचन्द्रो हरिसिंहो देवभद्रसूरिरपि । सर्वेऽप्येते विहिता सूरिपदेऽशोकचन्द्रेण ॥" --गणधरसार्धशतक (गा. ८४ ) बृहद्वत्तौ सुमतिगणिः । तथा च विशिकायामप्येवमुक्तम्इतोऽप्यभयदेवाख्यसूरेः श्रीश्रुतसम्पदम् । समवाप्य ततो मत्वा चैत्यवासोऽस्ति पापकृत् ॥ १॥ श्रीमत्कूर्चपुरीयश्रीसूरिजिनेश्वरस्य शिष्येण । जिनवल्लभेन गणिना चैत्यनिवासः परित्यक्तः॥२॥ कृताङ्गिगणभद्रेण देवभद्रेण सूरिणा । श्रीचित्रकूटदुर्गेऽस्मिन् सोऽपि सूरिपदे कृतः ॥ ३ ॥' -ग. सा. श. ( गा. ८४ ) बृहद्वत्तौ सुमतिगणिः । २ अत्र विषये विशेषार्थिना खरतरगच्छपावली निरीक्षणीया। ३ “सं. १६९ वैशाखवदिषठीदिने' इति ख. पावल्यादौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248