Book Title: Apbhramsa Kavyatrayi
Author(s): Jinduttsuri, Lalchandra B Gandhi
Publisher: Oriental Research Institute Vadodra
View full book text
________________
७२
[ जिनदत्तसूरिविरचितं
यदि स तस्य रसं पातुमिच्छति
तदा जगत् सर्वमपि शून्यं( सुवर्ण ) पश्यति ॥ १२ ॥] व्या०-यो धत्तरकपुल्लं(पं) समुज्वलं निर्मलं प्रेक्ष्य लग्नस्तत्र पुष्पे समुत् सहर्षों जडो मूर्खः । यदि स जडस्तस्य पुष्पस्य रसस्तं पातुमिच्छति ततो जगत् सवै सुवर्ण पश्यति । यदि कुगुरुधत्तूरकवचनरसं पिबति साभिलाषं शृणोति तत्त्वबुद्धया प्रतिपद्यत इति यावत् । तदा स सर्व जगत् शून्यं पश्यति नास्तिकदृष्टिरिव प्रतिपद्यत इत्यर्थः । कुगुरवो हि स्वयं नष्टाः परानपि नाशयतीति तात्पर्यार्थः ॥ १२ ॥ ___इदानीं सुगुरूपदेशविवेकिनां भव्यानां विशेषेण चेतसि निवेशिते तथा प्रतिपादयन्नाह--
इय मणुयत्तु सुदुल्लहु लद्धउ कुल-बल-जाइ-गुणेहिं समिद्धउ । दस दिहंत इत्थ किर दिना इहु निष्फलु ता नेहु म धन्ना ॥ १३ ॥ [ इति मनुजत्वं सुदुर्लभं लब्धं कुल-बल-जाति-गुणैः समृद्धम् । दश दृष्टान्ता अत्र किल दत्ता
इति निष्फलं तस्मान्नैष्ट मा धन्याः ! ॥ १३ ॥1 व्या०-इति मनुजत्वं दुर्लभं लब्धं कुल-बल-जाति-गुणैः समृद्ध सम्पनम् । दश दृष्टान्ता अत्र मनुजत्वदुर्लभत्वे दत्ता इति हेतोनिष्फलं मोघं ता तस्मान्मा नैष्ट धन्याः ! ॥ १३ ॥ न च नरत्वमानं कार्यकारीत्याह
लद्धिं नरत्ति अणारियदेसेहिं को गुणु तह विणु सुगुरुवएसिहि ? । आरियदेस जाइ-कुलजुत्तउ काइ करेइ नरत्तु वि पत्तउ ? ॥१४॥ [लब्धे नरत्वेऽनार्यदेशेषु को गुणस्तथा विना सुगुरूपदेशम् ( शैः ) । आर्यदेशे जाति-कुलयुक्तं किं करोति नरत्वमपि प्राप्तम् ? ॥ १४ ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248